सुभाषितम्

उत्तमानेव सेवेत प्राप्तकाले तु मध्यमान् ।
अधमांस्तु न सेवेत य इच्छेत् भूतिमात्मनः ॥




तात्पर्यम्

यः सम्पत्तिं प्राप्तुम् इच्छेत् सः उत्तमान् जनान् एव आश्रयेत् । प्राप्ते काले मध्यमान् आश्रयेत् । किन्तु कदापि अधमान् जनान् न आश्रयेत् एव ।

"https://sa.wikiquote.org/w/index.php?title=उत्तमानेव_सेवेत...&oldid=14789" इत्यस्माद् प्रतिप्राप्तम्