उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत । - काठकोपनिषत् १-३-१४

हे विवेकिनो मुमुक्षवः, यूयम् उत्तिष्ठत, जाग्रत, वरान् गुरून् प्राप्नुत, तेभ्यः आत्मानं विजानीत ।

अस्मिन् मन्त्रे ब्रह्मविद्याचार्यः ब्रह्मनिष्ठश्च मृत्युदेवः सर्वेभ्यः जिज्ञासुमुमुक्षुभ्यः ज्ञानप्राप्त्यै चतुरः
सन्देशान् उपदिशति । ते च ।
उत्तिष्ठत –आत्मज्ञानं प्राप्तुं संकल्पं कुरुत । अनादिभूतायाम् अविद्यानिद्रायामेव मा मग्ना भवत ।
नित्यशुद्धम् आत्मानम् अवगन्तुं प्रयत्नं कुरुत ॥
जाग्रत – सर्वानर्थबीजभूतायाः अविद्यानिद्रायाः ऊर्ध्वम् आगच्छत । अज्ञानान्धकारासुरं संहरत ।
ज्ञानं सम्पादयत ॥
वरान् प्राप्य – ब्रह्मनिष्ठान् सम्प्रदायविदः सद्गुरून् उपगम्य, सद्गुरुसेवां भक्त्या कुर्वन्तः तेभ्यः
आत्मोपदेशं शृणुत ॥
निबोधत – सद्गुरुभ्यः आत्मस्वरूपम् विज्ञाय मुक्ता भवत ।

"https://sa.wikiquote.org/w/index.php?title=उत्तिष्ठत_जाग्रत...&oldid=16286" इत्यस्माद् प्रतिप्राप्तम्