सुभाषितम्

उदये सविता रक्तो रक्ताश्चाऽस्तसमये तथा ।
सम्पत्तौ च विपत्तौ च महतामेकरूपता ॥




तात्पर्यम्

उदयावसरे अस्तङ्गमनावसरे च सूर्यः रक्तवर्णीयः एव भवति । एवमेव सन्तोषकाले कष्टकाले च महापुरुषाणां मनोभावः व्यवहारश्च समानः एव भवति ।

"https://sa.wikiquote.org/w/index.php?title=उदये_सविता_रक्तो...&oldid=15221" इत्यस्माद् प्रतिप्राप्तम्