<poem> कथञ्चिदपि सीता अन्वेषणीया रावणस्य वधं कृत्वा प्रजाः सुखिन्यः करणीयाः इति रामेण निश्चयः कृतः । तस्य उदात्तं धर्माधिष्ठितं निश्चयं ज्ञात्वा देवताः, ऋषयः वानराः सर्वे तस्य साहाय्यं कर्तुं निश्चितवन्तः । योग्यं कार्यं कर्तुं यदि कश्चित् उपक्रमेत् तर्हि सर्वे तस्य साहाय्यं कुर्वन्ति । दुष्टशिक्षणं सज्जनरक्षणं -इति हेतुना श्रीरामस्य उद्यमे सर्वे अपि साहाय्यं कृतवन्त इति अयं न्यायः सूचयति ।

"https://sa.wikiquote.org/w/index.php?title=उद्योगराघवन्यायः&oldid=14595" इत्यस्माद् प्रतिप्राप्तम्