उद्योगिनं पुरुषसिंहम्...
सुभाषितम्
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः
दैवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः ॥
तात्पर्यम्
उद्यमशीलान् लक्ष्मीः स्वयम् आश्रयति । सर्वं दैवेन एव अनुग्रहितव्यम् इति ये प्रतीक्षन्ते ते कापुरुषाः । दैवमेव नावलम्बयन् स्वयं परिश्रमः कर्तव्यः । परिश्रमेण अपि कदाचित् फलं यदि न लभ्येत तर्हि कः दोषः तत्र ?