सुभाषितम्

उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।
अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥




तात्पर्यम्

उपकारं ये कृतवन्तः तेषां विषये प्रीतिविश्वासदयः यदि दर्श्यन्ते तत्र न कोपि विशेषः विद्यते । किन्तु अपकारिणां विषये अपि उत्तमः व्यवहारः येन दर्श्यते सः भवति वस्तुतः साधुः ।

"https://sa.wikiquote.org/w/index.php?title=उपकारिषु_यः_साधुः...&oldid=14890" इत्यस्माद् प्रतिप्राप्तम्