<poem>

सुभाषितम्

उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये।॥
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥




तात्पर्यम्

सर्पाणां कृते पयःप्रदानेन यथा विषवर्धनं केवलं तथा मूर्खाणां कृते उपदेशः अपि तेषां कोपवर्धनार्थमेव भवति। उपदेशात् ते शान्ताः न भवन्ति। अतः मूर्खेभ्यः उपदेशः अनर्थक एव स्यात्

"https://sa.wikiquote.org/w/index.php?title=उपदेशो_हि_मूर्खाणां...&oldid=15891" इत्यस्माद् प्रतिप्राप्तम्