उपासते पुरुषं ये ह्यकामाः...

संसारगतितरणोपायोऽयम्

उपासते पुरुषं ये ह्यकामाः ते शुक्रमेतत् अतिवर्तन्ति धीराः । - मुण्डकोपनिषत् ३-२-१

ये मुमुक्षवः अकामाः सन्तः ब्रह्मज्ञानिनम् उपासते ते धीराः इमं
शुक्रमार्गम् अतीत्य गच्छन्ति ॥

अस्मिन् प्रपञ्चे भगवतः तथा सद्गुरूणाम् आराधकाः भक्ताः लक्षशः
विद्यन्ते । ईदृशाः भक्ताः सकामाः निष्कामाश्च इति द्वेधा विभज्यन्ते ।
ब्रह्मज्ञानी परमेश्वरवदेव महान् परमपूज्यश्च !! न हि, न हि । ब्रह्मज्ञानी
सद्गुरुः परमात्मनोऽपि श्रेष्ठ एव इत्युक्तेऽपि दोषाय न भवति ।
परब्रह्मस्वरूपो हि सद्गुरुर्नाम  !

ब्रह्मज्ञानिभूतान् सद्गुरून् यदि मुमुक्षुभक्ताः श्रद्धाभक्ति-पुरस्सराः सन्तः
शुद्धमनसा उपासते, तर्हि इमं जन्ममरणसंसारशुक्रमार्गमेव अतिक्रामन्ति ।
शुक्रं नाम “नृबीजं शरीरोपादान कारणम्” – शरीरोत्पत्तिकारणं वीर्यम् ।
इदम् अतिवर्तन्ते, न पुनः योनिं प्रसर्पन्ति, न पुनः जायन्ते इत्यर्थः ।
ब्रह्मनिष्ठसद्गुरूपदेशश्रवणेन आत्मज्ञानं जायते, आत्मज्ञानेन अज्ञानं
बाध्यते, अज्ञाने निवृत्ते सति जन्मान्तरप्राप्तिः नास्ति । तस्मात्
अवश्यमेव मुमुक्षु साधकैः ब्रह्मात्मज्ञानिनः ब्रह्मनिष्ठा गुरवः समुपास्याः ॥