उभे तीर्त्वा अशनायापिपासे...

उभे तीर्त्वा अशनायापिपासे शोकातिगो मोदते स्वर्गलोके । - काठकोपनिषत् १-१-१२

इह पुण्यकृत् मरणानन्तरं स्वर्गलोकं गत्वा तत्र अशनायां पिपासां च तीर्त्वा शोकरहितः
सन् सुखम् अनुभवति ।

स्वर्गलोकनरकलोकयोः ‘लोकान्तरम्’ इति नाम । न कश्चिदपि पुरुषः अस्मिन् लोके
अनेन प्रत्यक्षप्रमाणेन स्वर्गनरकलोकान् द्रष्टुं समर्थो भवेत् । न च अनुमानप्रमाणेन
लोकान्तरविचारान् ज्ञातुं समर्थः । तर्हि लोकान्तरविषये अस्माकं प्रमाणं किम् ? शास्त्रमेव ॥

कठोपनिषदः अयं मन्त्रः स्वर्गलोकविवरणं ददाति । स्वर्गलोकस्य देवलोकः इति नामान्तरम् ।
तत्र वसतां ‘देवाः’ इति नामधेयम् । तत्रस्थानां देवानाम् अशनाया वा पिपासा वा न विद्यते ।
तत्र स्वर्गलोके रोगादयो न भवन्ति । जरा, आयासः, दारिर्द्यम्, दुःखं, भयादिकं नास्ति ।
वाहनेभ्यः अपघातो वा दुर्मरणं वा तत्र स्वर्गे न सम्भवति । सकलेन्द्रियाणां तत्र दिव्याः सुखभोगाः
समृद्धाः भवन्ति । अयं हि स्वर्गलोकस्य भोगः ॥