एक चक्षुर्न काकोऽयं बिलमिच्छन्न पन्नगः ।
क्षीयते वर्धते चैव न समुद्रो न चन्द्रमा ॥

अस्य एकमेव नेत्रं विद्यते, किन्तु काकः न । बिलम् इच्छति, किन्तु न सर्पः । क्षयं अपि च वृद्धिं गच्छति किन्तु समुद्रः चन्द्रमा वा नास्ति ।

उत्तरम्

सूत्रेण सहिता सूची
"https://sa.wikiquote.org/w/index.php?title=एक_चक्षुर्न_काकोऽयं...&oldid=15935" इत्यस्माद् प्रतिप्राप्तम्