सुभाषितम्

एहि ब्रूहि समाधेहि समाश्वसिहि मास्म भैः ।
आपन्नमिति यो ब्रूयात् तस्य लोको वशंवदः ॥




तात्पर्यम्

आगच्छतु, मिलतु, धैर्येण भवतु, भीतिः मास्तु, उपविशतु - इत्यादिभिः वचनैः कष्टे विद्यमानान् ये समाश्वसन्ति तेषाम् इदं जगत् वशीभूतः भवति ।

"https://sa.wikiquote.org/w/index.php?title=एहि_ब्रूहि_समाधेहि...&oldid=14894" इत्यस्माद् प्रतिप्राप्तम्