कबीरः
कबीरः (१४४०-१५१८) भारतीयः कविः, तत्त्वज्ञानी, भक्तिमार्गानुयायी च ।
'बिजक्'सङ्ग्रहात्
सम्पाद्यताम्कबीरेण आरम्भकाले रचितः कवनसङ्ग्रहः 'बिजक्'नामकः ।
- 'अहं मदीयमेव गृहं दग्धवान् अस्मि ।
अधुना माम् अनुसर्तुं यः इच्छेत् तस्य गृहं दहामि' ।
- मुद्गलस्य ताडनानि यत् वज्रं सहेत तत् श्लाघताम् । विवेचनापूर्णेन परीक्षणेन बहवः बोधकाः कपटाः इति ज्ञायते ।
- शाकविपण्यां भवतः वज्राणि न उद्घाटयतु । बन्धे बद्ध्वा हृदये रक्षतु, स्वस्य मार्गे गच्छतु ।
- किञ्चन वज्रं मलिनेन आवृतं मार्गे पतितमस्ति । बहवः मूर्खाः मार्गे गताः । यः जानाति तेन वज्रं स्वीकृतम् ।
कबीरस्य गीतानि
सम्पाद्यताम्- हे सेवक, कुत्र माम् अन्विष्यति ?
हे ! अहं तव पार्श्वे अस्मि ।
अहं देवालये नास्मि न वा यवनालये : कब्बायां नास्मि न वा कैलासे ।
संस्कारेषु आचरणेषु वा नास्मि अहम्, न वा योगे संन्यासे वा ।
यदि त्वं यथार्थसाधकः, मां सकृत् पश्यसि, कस्मिंश्चित् क्षणे मया मिलति एव ।
- कबीरः वदति - 'हे साधो ! सर्वेषां श्वासानां श्वासः अस्ति देवः ।
- साधुम् उद्दिश्य तव जातिः का इति प्रश्नः अप्रस्तुतः ।
अर्चकाय - योधः, वणिक्.. सर्वे षट्त्रिंशत् जातीयाः - अपि देवोपासकाः मात्रम् ।
- हिन्दवः यवनाः च तत् परन्धाम प्राप्तवन्तः, यत्र भेदलेशोऽपि न विद्यते ।
- 'मित्र ! जीवने तस्य प्रतीक्षा भवतु, जीवने तं जानातु, जीवने तम् अवगच्छतु यतः जीवने विमोचनं विद्यते ।
जीवने बन्धनेभ्यः न विमुक्तः चेत् मरणे विमोचनं कुतः ?
सः असारः स्वप्नः यत् आत्मना दैव