करिघण्टान्यायः
मत्तगजः स्वैरं विहरति तस्य नियन्त्रणं कठिनमेव कार्यम् । परन्तु सः गजः मत्तः इति कारणेन जनाः तस्मात् दूरे भवन्तु इति सूचयितुं तस्य गजस्य कण्ठे घण्टा बध्यते । यदा शारीरकबलस्य अपेक्षया बुद्धिः गरीयसी इति सूचनीयं भवति तदा अस्य न्यायस्य प्रयोगः भवति ।
- मतिरेव बलाद् गरीयसी यदभावे करिणामियं दशा ।
- इति घोषयतीव डिण्डिमः करिणो ह्स्तिपकाहतः क्वणन् ॥
- गुणरत्न -८ (सा. ६५३)