काकः कृष्णः पिकः कृष्णः...



हिंदी-अर्थः -


सुभाषितम्

काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ॥
वा.रा. – अरण्य/३८/२६




तात्पर्यम्

काकः कृष्णवर्णः, पिकः अपि कृष्णवर्णो भवति‌। दर्शने तु एतयोर्मध्ये स्वरूपभेदो नास्ति । परं यदा वसन्तकालः आगच्छति तदा भेदः ज्ञायते । काकस्तु केवलं कूजति एव, पिकश्च मधुरम् गायति । अनेनोभयोः भेदो बोध्यते।