यदा काचिद् घटना अनपेक्षितरीत्या घटते (जायते) तदा तस्याः सूचनार्थम् अस्य न्यायस्य प्रयोगः क्रियते । काकः उपविष्टः तालफलं च पतितम् इति एकस्मिन् काले अनपेक्षितरीत्या जातं चेत् तयोः कारण-कार्य संबन्धः न भवति । आप्टेमहाशयस्य कोशे अस्य न्यायस्य पञ्च विवरणानि दत्तानि यथा –

  • तालवृक्षस्य अधः काकः उपविष्टः अकस्मात् तस्य शिरसि तालफलं पतितम् –इति यादृच्छिकं घटनाद्वयम् ।
  • काकः तालवृक्षस्य शाखाग्रे उपविशति । तदा शाखाग्रेण सह सः वृक्षः पतितः चेत् काकस्य भारेण एव वृक्षः पतितः इति कथनं सर्वथा अयोग्यम् एव । तालपतनं काकस्य उपवेशनम् इति द्वयमपि यादृच्छिकमेव ।
  • काकस्य उपवेशनं तालपतनमिति घटनाद्वयं एकस्मिन् समये वेगेन अलक्षितक्रमेण जातम् ।
  • काकः यदा तालवृक्षस्य समीपं गतः तदैव तालफलं तदुपरि पतितम् तेन काकः प्रहारं प्राप्तवान् ।
  • कश्चन मनुजः वेगेन करतल- ताडनं कुर्वन् अस्ति तदा कश्चन काकः तस्य हस्तयोर्मध्ये गतः प्रहारं प्राप्तवान्-इति सूच्यते । उदाहरणार्थं तालः नाम करतलयोः शब्दजनकः संयोगः । तस्मिन् क्रियमाणे दैवात् कश्चन काकः उत्पतन् तत्र तालाभ्याम् आक्रान्तः अभवत् । तदेतत् काकतालीयमुच्यते ।

(नीलकण्ठीयटीका- महाभारतशान्तिपर्व १२-१७-११)

"https://sa.wikiquote.org/w/index.php?title=काकतालीयन्यायः&oldid=9173" इत्यस्माद् प्रतिप्राप्तम्