काकरुतभीरुन्यायः
क्वचित् कश्चन प्रियः तस्य प्रेयसी च गाढं निद्रामग्नौ आस्ताम् । तदा प्रातः काले काकस्य ‘काविति’ रुतस्य कठोरध्वनिना प्रेयसी भीता निद्रायामेव प्रियं गाढम् आलिङ्तिवती । सा भीरुर्वा ? तथाचेत् सा महिला रात्रौ नदीं तीर्त्वा प्रियसमीपं कथम् आगतवती ? एवं यत् किमपि पूर्णश्रद्धया साधनीयं चेत् तत्समये किमपि भयं न भवति तदनन्तरं तु स्वभावः प्रकटितो भवति इति सूचयितुं अस्य न्यायस्य प्रयोगो भवति ।