कयोश्चित् द्वयोः स्वतन्त्ररीत्या प्रवासः आरब्धः । प्रवासकाले मध्ये कश्चन अरण्यभागः प्राप्तः । द्वयोरपि भयं भवति अतः परस्परं मैत्रीं कल्पयित्वा अरण्ये मार्गम् अन्विष्यतः । अरण्यभागे अतिक्रान्ते पुनः द्वयोरपि पृथक् पृथगेव प्रवासो भवति । एवं केनापि निमित्तेन मैत्री घटिता चेत् निमित्तानन्तरं सा स्वयं नश्यति

"https://sa.wikiquote.org/w/index.php?title=कान्तारन्यायः&oldid=9392" इत्यस्माद् प्रतिप्राप्तम्