रामायणसूक्तयः (कामः)
(कामः इत्यस्मात् पुनर्निर्दिष्टम्)
१. अकामां कामयानस्य शरीरमुपतप्यते ।
- इच्छतीं कामयानस्य प्रीतिर्भवति शोभना ॥ (सुन्दरकाण्डः २२/४२)
२. अर्थधर्मौ परित्यज्य यः काममनुवर्तते ।
- एवमापद्यते क्षिप्रं राजा दशरथो यथा ॥ (अयोध्याकाण्डः ४२/१३)
३. कामस्वभावो यः सोऽसौ न शक्यस्तं प्रमार्जितुम् । (अरण्यकाण्डः ५०/१२)
४. वामः कामो मनुष्याणां यस्मिन् किल निवध्यते ।
- जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते ॥ (सुन्दरकाण्डः २२/४)