कालचक्रम्
- कालो निर्माति चित्रपटीम् ।
- श्रीरामचरितम्, पृ ० ३४
- फुल्लाति मधुनिपलाशो नृत्यति वर्षासु बर्हिणो भूयः ।
- कूजति शरदि मरालः काले सर्वं गुनाम् धत्ते ।
- यज्ञफलम्, IV, ३४
- कालाधीनं हि सर्वं लॊके भवति ।
- श्रीकृष्णचन्द्राब्युदयम्, पृ ० ५३
- कालस्तावद् विधिनियमितः सर्वकार्येऽस्तिलोके ।
- नैनं मर्त्यः प्रभवति महानप्यणुं लङ्घनाय ॥
- कमलिनीकलहंसम्, IV. ६
- क्षिप्रमक्रियमणस्य कालः पिबति तद्रसम् ।
- श्रीकृष्णचन्द्राभ्युदयम्, पृ ० ५७
- स्वल्प एव कालः ।
- अनार्कली, पृ ० ४४
कालचक्रम्
सम्पाद्यताम्- कालचक्रपरवशा हि सर्वॆ प्राणिनः ।
- छत्रपतिसाम्राज्यम्, पृ ० १२१
कालपाशः
सम्पाद्यताम्- कर्कशं खलु कालपाशम् ।
- सुभद्राधनञ्जयम्, III. १२