कालिदाससूक्तयः (ऋतुसंहारम्)
ग्रीष्म-ऋतुः
सम्पाद्यताम्१. प्रदृद्धतापो दिवसोऽतिमात्रमत्यर्थमेव क्षणदा च तन्वी ॥ रघु० १६।४५॥
२. दिने दिने शैवलवन्त्यधस्तात्सोपानपर्वाणि विमुञ्चदम्भः ।
- उद्दण्डपद्मं गृहदीर्घिकाणां नारी नितम्बद्वयसम्बभूव ॥ रघु० १६।४६॥
३. वनेषु सायन्तनमल्लिकानां विजृम्भणोद्गन्धिषु कुड्मलेषु ।
- प्रत्येकनिक्षिप्तपदः सशब्दं संख्यामिवैषां भ्रमरश्चकार ॥ रघु० १६।४७॥
४. स्वेदानुविद्धार्द्रनखक्षताङ्के भूयिष्ठसन्दष्टशिखं कपोले ।
- च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहसा पपात ॥ रघु० १६।४८॥
५. स्नानार्द्रमुक्तेष्वनुधूपवासं विन्यस्तसायन्तनमल्लिकेषु ।
- कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलमङ्गनानाम् ॥ रघु० १६।५०॥
६. पत्रच्छायासु हंसा मुकुलितनयना दीर्घिका पद्मिनीनाम्,
- सौधान्यत्यर्थतापाद् बलभिपरिचयद्वेषिपारावतानि ।
- बिन्दुक्षेपान्पिपासुः परिसरति शिखी भान्तिमद्वारियन्त्रम्-
- सर्वैरुस्रैः समग्रैस्त्वमिव नृपगुणैर्दीप्यते सप्तसप्तिः ॥ मालविका० २।१२॥
७. प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः सदावगाहक्षतवारिसञ्चयः ।
- दिनान्तरम्योऽभ्युपशान्तमन्मथो निदाघकालोऽयमुपागतः प्रिये ॥ ऋतु० १।१॥
८. पयोधराश्चन्दनपङ्कचर्चितास्तुषारगौरार्पितहारशेखराः ।
- नितम्बदेशाश्च सहेममेखलाः प्रकुर्वते कस्य मनो न सोत्सुकम् ॥ ऋतु० १।६॥
९. असह्यवातोद्धतरेणमुण्डला प्रचण्डसूर्यातपातपिता मही ।
- न शक्यते द्रष्टुमपि प्रवासिभिः प्रियावियोगानलदग्धमानसैः ॥ ऋतु० १।१०॥
१०. रवेर्मयूखैरभितापितो भृशं विदह्यमानः पथि तप्तापांसुभिः ।
- अवाङ्मुखो जिह्मगतिः श्वसन्मुहुः फणी मयूरस्य तले निषीदति ॥ ऋतु० १।१३॥
११. हुताग्निकल्पैः सवितुर्गभस्तिभिः कलापिनः क्लान्तशरीरचेतसः ।
- न भोगिनं घ्नन्ति समीपवर्तिन कलापचक्रेषु निवेशिताननम् ॥ ऋतु० १।१६॥
१२. रविप्रभोद्भिन्नशिरोमणिप्रभा विलोलजिह्वाद्वयलीढमारुतः ।
- विषाग्निसूर्यातपतापितः फणी न हन्ति मण्डूककुलं तृषाकुलः ॥ ऋतु० १।२०॥
१३. गजगवयमृगेन्द्रा वह्निसन्तप्तदेहाः,
- सुहृद इव समेता द्वन्द्वभावं विहाय ।
- हुतवहपरिखेदादाशु निर्गत्य कक्षाद्,
- विपुलपुलिनदेशान्निम्नगां संविशन्ति ॥ ऋतु० १।२७॥
१४. कमलवनचिताम्बुः पाटलामोदरम्यः,
- सुखसलिलानिषेकः सेव्यचन्द्रांशुहारः ।
- व्रजतु तव निदाघः कामिनीभिः समेतो,
- निशि सुललितगीते हर्म्यपृष्ठे सुखेन ॥ ऋतु० १।२८॥
१५. सुभगसलिलावगाहाः पाटलसंसर्गिसुरभिवनवाताः ।
- प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥ शाकुन्तल १।३॥
वर्षा-ऋतुः
सम्पाद्यताम्१. ससीकराम्भोधरमत्तकुञ्जरस्तडित्पताकोऽशनिशब्दमर्दलः ।
- समागतो राजवदुद्धरद्युतिर्घनागमण् कामिजनप्रियः प्रिये ॥ ऋतु० २।१॥
२. नितान्तनीलोत्पलपत्रकान्तिभिः क्वचित्प्रभिन्नाञ्जनराशिसन्निभैः ।
- क्वचित्सगर्भप्रमदास्तनप्रभैः समाचितं व्योम घनैः समन्ततः ॥ ऋतु० २।२॥
३. बलाहकाश्चाऽशनिशब्दमर्दलाः सुरेन्द्रचापं दधतस्तडिद्गुणम् ।
- सुतीक्ष्णाधारापतनोग्रसायकैस्तुदन्ति चेतः प्रसभं प्रवासिनाम् ॥ ऋतु० २।४॥
४. निपातयन्त्यः परितस्तटद्रुमान् प्रवृद्धवेगैः सलिलैरनिर्मलैः ।
- स्त्रियः सुदुष्टा इव जातविभ्रमाः प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ॥ ऋतु० २।७॥
५. पयोधरैर्भीमगभीरनिःस्वनैस्तडिद्भिरुद्वेजितचेतसो भृशम् ।
- कृतापराधानपि योषितः प्रियान्परिष्वजन्ते शयने निरन्तरम् ॥ ऋतु० २।११॥
६. विलोचनेन्दीवरवारिबिन्दुभिर्निषिक्तबिम्बाधरचारुपल्लवाः ।
- निरस्तमाल्याभरणानुलेपनाः स्थिता निराशाः प्रमदाः प्रवासिनाम् ॥ ऋतु० २।१२॥
७. शिरोरुहैः श्रोणितटावलम्बिभिः कृतावतंसैः कुसुमैः सुगन्धिभिः ।
- स्तनैः सहारैः ससीधुभिः स्त्रियो रतिं सञ्जनयन्ति कामिनाम् ॥ ऋतु० २।१८॥
८. वहन्ति वर्षन्ति नदन्ति भान्ति रुदन्ति नृत्यन्ति समाश्रयन्ति ।
- नद्यो घना मत्तगजा वनान्ताः प्रियाविहीनाः शिखिनः प्लवङ्गाः ॥ ऋतु० २।१९॥
९. कालागुरुप्रचुरचन्दनचर्चिताङ्ग्यः,
- पुष्पावतंससुरभिकृतकेशपाशाः ।
- श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे,
- शय्यागृहं गुरुगृहात्प्रविशन्ति नार्यः ॥ ऋतु० २।२२॥
१०. बहुगुणरमणीयः कामिनीचित्तहारी,
- तरुविटपलतानां बान्धवो निर्विकारः ।
- जलदसमय एष प्राणिनां प्राणभूतो,
- दिशतु तव हितानि प्रायशो वाञ्छितानि ॥ ऋतु० २।१९॥
११. मेघालोके भवति सुखिनोऽप्यन्यथावृत्तिचेतः ।
- कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ पू० मे० ३॥
१२. कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायाम् ॥ पू० मे० ८॥
शरत्-शिशिर-ऋतुः
सम्पाद्यताम्१. पुण्डरीकातपत्रस्तं विकसत्काशचामरः ।
- ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम् ॥ रघु० ४।१७॥
२. हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु ।
- विभूतयस्तदीयानां पर्यस्ता यशसामिव ॥ रघु० ४।१९॥
३. प्रससादोदयादम्भः कुम्भयोनेर्महौजसः ॥ रघु० ४।२१॥
४. सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् ।
- यात्रायै चोदयामास तं शक्तेः प्रथमं शरत् ॥ रघु० ४।२४॥
५. काशाशुंका विकचपद्ममनोज्ञवक्त्रा,
- सोन्मादहंसरवनूपुरनादरम्या ।
- आपक्वशालिरुचिरा नतगात्रयष्टिः,
- प्राप्ता शरन्नववधूरिव रूपरम्या ॥ ऋतु० ३।१॥
६. काशैर्मही शिशिरदीधितिना रजन्यो,
- हंसैर्जलानि सरितां कुमुदैः सरांसि ।
- सप्तच्छदैः कुसुमभारनतैर्वनान्ताः,
- शुक्लीकृतान्युपवनानि च मालतीभिः ॥ ऋतु० ३।२॥
७. तारागणप्रवरभूषणम् उद्वहन्ती,
- मेघावरोधपरिमुक्तशशाङ्कवक्त्रा ।
- ज्योत्स्नादुकूलममलं रजनी दधाना,
- वृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ॥ ऋतु० ३।७॥
८. हंसैर्जिता सुललिता गतिरङ्गनाना-
- मम्भोरुहैर्विकसितैर्मुखचन्द्रकान्तिः ।
- नीलोत्पलैर्मदकलानि विलोकितानि,
- भ्रूविभ्रमाश्च रुचिरास्तनुभिस्तरङ्गैः ॥ ऋतु० ३।१७॥
९. शरदि कुमुदसङ्गाद्वायवो वान्ति शीता,
- विगतजलदवृन्दा दिग्विभागा मनोज्ञाः ।
- विगतकलुषमम्भः श्यानपङ्का धरित्री,
- विमलकिरणचन्द्रं व्योम ताराविचित्रम् ॥ ऋतु० ३।२२॥
१०. करकमलमनोज्ञाः कान्तसंसक्तहस्ता,
- वदनविजितचन्द्राः काश्चिदन्यास्तरुण्यः ।
११. विकचकमलवक्त्रा फुल्लनीलोत्पलाक्षी,
- विकसितनवकाशश्वेतवासो वसाना ।
- कुमुदरुचिरकान्तिः कामिनीवोन्मदेयम्,
- प्रतिदिशतु शरद्वश्चेतसः प्रीतिमग्र्याम् ॥ ऋतु० ३।२८॥
१२. निरुद्धवातायन मन्दिरोदरम्,
- हुताशनो भानुमतो गभस्तयः ।
- गुरूणि वासांस्यबलाः सयौवनाः,
- प्रयान्ति कालेऽत्र जनस्य सेव्यताम् ॥
१३. न चन्दनं चन्द्रमरीचिशीतलं न हर्म्यपृष्ठं शरदिन्दुनिर्मलम् ।
- न वायवः सान्द्रतुषारशीतला जनस्य चित्तं रमयन्ति साम्प्रतम् ॥ ऋतु० ५।३॥
१४. प्रचुरगुडविकारः स्वादुशालीक्षुरम्यः,
- प्रबलसुरतकेलिर् जातकन्दर्पदर्पः ।
- प्रियजनरहितानां चित्तसन्तापहेतुः,
- शिशिरसमय एष श्रेयसे वोऽस्तु नित्यम् ॥ ऋतु० १६॥
हेमन्त-ऋतुः
सम्पाद्यताम्१. नवप्रवालोद्गमसस्यरम्यः प्रफुल्ललोध्रः परिपक्वशालिः ।
- विलीनपद्मः प्रपतत्तुषारो हेमन्तकालः समुपागतोऽयम् ॥ ऋतु० ४।१॥
२. प्रफुल्लनीलोत्पलशोभितानि सोन्मादकादम्बविभूषितानि ।
- प्रसन्नतोयानि सुशीतलानि सरांसि चेतांसि हरन्ति पुंसाम् ॥ ऋतु० ४।९॥
३. मार्गं समीक्ष्यातिनिरस्तनीरं प्रवासखिन्नं पतिमुद्वहन्त्यः ।
- अवेक्ष्यमाणा हरिणेक्षणाक्ष्यः प्रबोधयन्तीव मनोरथानि ॥ ऋतु० ४।१०॥
४. दन्तच्छदैः सव्रणदन्तचिह्नैः स्तनैश्च पाण्यग्रकृताभिलेखैः ।
- संसूच्यते निर्दयमङ्गनानां रतोपभोगो नवयौवनानाम् ॥ ऋतु० ४।१३॥
५. अन्या प्रकामसुरतश्रमखिन्नदेहा रात्रिप्रजागरविपाटलनेत्रपद्मा ।
- स्रस्तांसदेशलुलिताकुलकेशपाशा निद्रां प्रयाति मृदुसूर्यकराभितप्ता ॥ ऋतु० ४।१५॥
६. अन्याश्चिरं सुरतकेलिपरिश्रमेण,
- खेदं गताः प्रशिथिलीकृतगात्रयष्ट्यः ।
- संहृष्यमाण – पुलकोरुपयोधरान्ता,
- अभ्यञ्जनं विदधति प्रमदाः सुशोभाः ॥ ऋतु० ४।१८॥
७. बहुगुणरमणीयो योषितां चित्तहारी,
- परिणतबहुशालिव्याकुलग्रामसीमा ।
- विनिपतिततुषारः क्रौञ्चनादोपगीतः,
- प्रदिशतु हिमयुक्तः कालः एषः सुखं वः ॥ ऋतु० ४।१९॥
वसन्त- ऋतुः
सम्पाद्यताम्१. कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम् ।
- इति यथाक्रममाविरभून्मधुर्द्रुमवतीमवतीर्य वनस्थलीम् ॥ रघु० ९।४२॥
२. अमदयन्मधुसनाथया किसलयाधरसङ्गतया मनः ।
- कुसुमसम्भृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ॥ रघु० ९।४२॥
३. अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः ।
- परभृताविरुतैश्च विलासिनः स्मरबलैकरसाः कृताः ॥ रघु० ९।४३॥
४. ध्वजपटं मदनस्य धनुर्भृतश्छविकरं मुखचूर्णमृतुश्रियः ।
- कुसुमकेसररेणुमलिव्रजाः सपवनोपवनोत्थितमन्वयुः ॥ रघु० ९।४५॥
५. त्यजत मानमलं बत विग्रहैर्न पुनरेति गतं चतुरं वयः ।
- परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः ॥ रघु० ९।४७॥
६. चूताङ्कुरस्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज ।
- मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य ॥ कुमार० ३।३२॥
७. तं देशमारोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने ।
- काष्ठागतस्नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवव्रुः ॥ कुमार० ३।३५॥
८. मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः ।
- श्रृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥ कुमार० ३।३६॥
९. ददौ रसात् पङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः ।
- अर्धोपभुक्तेन बिसेन जायां सम्भावयामास रथाङ्गनामा ॥ कुमार० ३।३७॥
१०. गीतान्तरेषु श्रमवारिलेशैः किञ्चित्समुच्छ्वासितपत्रलेखम् ।
- पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किम्पुरुषश्चुचुम्बे ॥ कु० ३।३८॥
११. पर्याप्तपुष्पस्तबकस्तनाभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः ।
- लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखा भुजबन्धनानि ॥ कु० ३।३९॥
१२. उन्मत्तानां श्रवणसुभगैः कूजितैः कोकिलानाम्,
- सानुक्रोशं मनसिजरुजः सह्यतां पृच्छतेव ।
- अङ्गे चूतप्रसवसुरभिदक्षिणो मारुतो मे,
- सान्द्रस्पर्शः करतल इव व्यापृतो माधवेन ॥ मालविका० ३।४॥
१३. रक्ताशोकरुचा विशेषितगुणो बिम्बाधरालक्तकः,
- प्रत्याख्यातविशेषकं कुरबकं श्यामावदातारुणम् ।
- आक्रान्ता तिलकक्रिया च तिलकैर्लग्नद्विरेफाञ्जनैः,
- सावज्ञेव मुखप्रसाधनविधौ श्रीर्माधवी योषिताम् ॥ मालविका० ३।५॥
१४. प्रफुल्लचूताङ्कुरतीक्ष्णसायको द्विरेफमालाविलसद्धनुर्गुणः ।
- मनांसि भेत्तुं सुरतप्रसङ्गिनां वसन्तयोद्धा समुपागतः प्रिये ॥ ऋतु० ६।१॥
१५. द्रुमाः सपुष्पाः सलिलं सपद्मं स्त्रियः सकामाः पवनः सुगन्धिः ।
- सुखाः प्रदोषा दिवसाश्च रम्याः सर्वं प्रियं चारुतरं वसन्ते ॥ ऋतु० ६।२॥
१६. नेत्रेषु लोलो मदिरालसेषु गण्डेषु पाण्डुः कठिनः स्तनेषु ।
- मध्येषु निम्नो जघनेषुः पीनः स्त्रीणामनङ्गो बहुधा स्थितोऽद्य ॥ ऋतु० ६।१२॥
१७. आदीप्तवह्निसदृशैर्मरुताऽवधूतैः सर्वत्र किंशुकवनैः कुसुमावनम्रैः ।
- सद्यो वसन्तसमयेन समाचितेयं रक्तांशुका नववधूरिव भाति भूमिः ॥ ऋतु० ६।२१॥
१८. आलम्बिहेमरसनाः स्तनसक्तहाराः,
- कन्दर्पदर्पशिथिलीकृतगात्रयष्ट्यः ।
- मासे मधौ मधुरकोकिलभृङ्गनादैर्नार्यो,
- हरन्ति हृदयं प्रसभं नराणाम् ॥ ऋतु० ६।२६॥
१९. रम्यः प्रदोषसमयः स्फुटचन्द्रभासः,
- पुंस्कोकिलस्य विरुतं पवनः सुगन्धिः ।
- मत्तालियूथविरुतं निशि शीधुपानं,
- सर्वं रसायनमिदं कुसुमायुधस्य ॥ ऋतु० ६।३५॥
२०. आम्रीमञ्जुलमञ्जरीवरशरः सत्किंशुकं यद्धनु-
- र्ज्यो यस्यालिकुलं कलङ्करहितं छत्रं सितांशुः सितम् ।
- मत्तेभो मलयानिलः परभृता यद्वन्दिनो लोकजित्,
- सोऽयं वो वितरीतरीतु वितनुर्भद्रं वसन्तान्वितः ॥ ऋतु० ६।३८॥