रुपवती गुणवती शीलवती च काऽपि कन्या भवति चेत् यथार्थतः तस्य कारणं तस्याः मातृगृहमेव । श्वशुरगृहे व्यर्थमेव यशो गच्छति । प्रत्युत तया कन्यकया अपि भूरि कार्यं करणीयं भवति । एवं कुतश्चित् प्राप्तानां गुणानां यशः कुत्रचित् गतं भवति चेत् अयं न्यायः प्रवर्तते । (सा. ७१७)

सत्यं सन्ति गृहे गृहे सुकवयो येषां वचश्चातुरी ।

स्वे हर्म्ये कुलकन्यकेन लभते जातैर्गुणैर्गौरवम् ॥

"https://sa.wikiquote.org/w/index.php?title=कुलकन्यकान्यायः&oldid=9419" इत्यस्माद् प्रतिप्राप्तम्