कुलम्
- यदि च विभवरूपज्ञानसत्त्वादयः स्युर्न तु कुलविकलानां वर्तते वृत्तशुद्धिः ।
- अविमारकम्, पृ ० ५
कुलकन्यका सम्पाद्यताम्
- यॆन पुरुषेण कुलकन्यका करे गृहीत तथा तस्य धर्मदारैर्भवितव्यं खलु ।
- कमलिनीकलहंसम्, पृ ० ५८
कुलपर्वताः सम्पाद्यताम्
- न कम्पन्ते झंझामरुति किल वाति प्रतिदिशम् ।
- समुन्मूर्च्छत्साराः कुलशिखरिणः किञ्चिदपि ते ॥
- महावीरचरितम्, VI. ३६
कुलप्रतिष्ठा सम्पाद्यताम्
- अप्रतिष्ठे कुलज्येष्ठे का प्रतिष्ठा कुलस्य ।
- उत्तररामचरितम्, V. २५
कुलविरोधः सम्पाद्यताम्
- सति च कुलविरोधे नापराध्यन्ति बालाः ।
- पञ्चरात्रम्, III.४
कुलीनाः सम्पाद्यताम्
- असन्त इव सन्तोऽपि कोपयन्ति परं नरम् ।
- निजक्षमागुणोदारपरिपाकं परीक्षितुम् ॥
- स्वानुभूतिः पृ ० ५