नदीतः क्षेत्रे जलं प्रवहतु इति धिया एका कुल्या निर्मीयते चेत् तया कुल्यया क्षेत्रस्य एव प्रयोजनं भवति इति नास्ति, अपराणि अपि प्रयोजनानि भवन्ति । तथा एकया क्रियया अनेकप्रयोजनानि साध्यन्ते इति अनेन न्यायेन बोध्यते ।

"https://sa.wikiquote.org/w/index.php?title=कुल्याप्रणयनन्यायः&oldid=9437" इत्यस्माद् प्रतिप्राप्तम्