कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः ॥

कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः ॥ (अथर्ववेदः ७-५२-८)

सम्पाद्यताम्

मम दक्षिणहस्ते क्रियाशीलता विद्यते, मम वामहस्ते जयः विद्यते ।

अलसस्य कुतो जयः ?! कार्यं करणीयम्, उत्साहेन कार्यं कर्तव्यम् । फलस्य प्रतीक्षायाम् आतङ्केन कार्यं न कर्तव्यम् । 'निष्कपटभावेन यदि कार्यं क्रियेत तर्हि जयः निश्चितः एव । तत्र न कोपि संशयः । अयम् आशावादः उपरितने वाक्ये परिदृश्यते ।
कार्यस्य फलं भवति अनेकधा । किन्तु अद्यत्वे वयम् इदं फलं धनरूपेणैव अत्यल्पे समये अधिकप्रमाणेन प्राप्तुम् इच्छामः !! अनया प्रतीक्षया कृतं कर्म न कार्यं, न क्रियाशीलता ! इदं द्यूतम् !!! कार्यस्य फलं ज्ञानं स्यात्, अनुभवः स्यात् । जनसम्पर्कः, आरोग्यं वा स्यात् । गौरवादराः स्युः । सर्वस्य अपेक्षया अधिकतमः आत्मविश्वासः आत्मतृप्तिः स्यात् !!!!