कृत्वा नवदृढसङ्कल्पम्...

कृत्वा नवदृढसङ्कल्पम्...


कृत्वा नवदृढसङ्कल्पम्

वितरन्तो नवसन्देशम्
घटयामो नव सङ्घटनम्
रचयामो नवमितिहासम् ॥


नवमन्वन्तरशिल्पिन:
राष्ट्रसमुन्नतिकाङ्क्षिण:
त्यागधना: कार्यैकरता:
कृतिनिपुणा: वयमविषण्णा: ॥ ॥१॥


भेदभावनां निरासयन्त:
दीनदरिद्रान् समुद्धरन्त:
दु:खवितप्तान् समाश्वसन्त:
कृतसङ्कल्पान् सदा स्मरन्त: ॥ ॥२॥


प्रगतिपथान्नहि विचलेम
परम्परां संरक्षेम
समोत्साहिनो निरुद्वेगिनो

नित्यनिरन्तरगतिशीला: ॥ ॥३॥
- श्री जनार्दन हेगडे