केतकीकुसुमानाम् अतिशयसुगन्धकारणेन सर्वेषां मनः आकृष्टं भवति । परन्तु तत्र वर्तमानानां कण्टकानां कारणेन तेषां समीपं गन्तुं भयमपि भवति । तथैव केषाञ्चन विषये मनसि सपद्येव आकर्षणं भीतिरपि भवतीति सूचयितुम् अस्य न्यायस्य प्रयोगो भवति ।

महाकविना कालिदासेन अस्य न्यायस्य सुन्दरः प्रयोगः रघुवंशमहाकाव्ये कृतः यथा –

भीमकान्तैर्नृप गुणैः स बभूवोपजीविनाम् ।

अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः ॥ (रघुवंशे-१-१६)

स्वकीयैः भयजनकैः गुणैः अधृष्यः कमनीयगुणैः च अभिगम्यः अभवत् राजा दिलीपः । समुद्रः तत्र वर्तमानानां जलचराणां कारणेन भयङ्करो भवति परन्तु रत्नादिमूल्यवद्वस्तूनां कारणेन आकर्षणीयः अपि भवति खलु ।

"https://sa.wikiquote.org/w/index.php?title=केतकीकुसुमन्यायः&oldid=9470" इत्यस्माद् प्रतिप्राप्तम्