प्रमुखा विकल्पसूचिः उद्घाट्यताम्

केशवबलिरामहेडगेवारः

अहं सशपथं वदामि यत् जगति सङ्घटनम् एकम् एव तादृशी शक्तिः अस्ति, यस्याः च आधारेण सर्वासां समस्यानां निवारणं भवितुम् अर्हति ।

केशवबलिरामहेडगेवारः (एप्रिल् १, १८८९ - जून् २१, १९४०) राष्ट्रियस्वयंसेवकसङ्घस्य संस्थापकः । पूर्वतनस्य भारतीयराष्ट्रियकाङ्ग्रेस्पक्षस्य नायकः आसीत् ।

अमृतवचनानिसम्पाद्यताम्

  • असङ्घटितावस्था, आत्मविस्मृतिः, परस्परं स्नेहाभावः चैव अद्यतनः मुख्यः रोगः अस्ति । एतस्य दूरीकरणाय सुसङ्घटितम् एकात्मराष्ट्रस्वरूपं साक्षात्कृत्य जागरितजीवनं प्रतिष्ठापनीयम् अस्ति ।


  • समग्रः हिन्दुसमाजः एव अस्माकं कार्यक्षेत्रम् । वयं सर्वान् हिन्दून् अस्मदीयान् भावयेम । अस्माभिः स्वस्य मानसम्मानादिक्षुद्रभावनाः परित्यज्य प्रेम्णा नम्रतया च समाजस्य सर्वेषां बन्धूनां समीपं गन्तव्यम् । तादृशं शिलासदृशं हृदयं किं स्यात्, यच्च भवतः मृदुतापूर्णानां नम्रतापूर्णानां च शब्दानां श्रवणं निराकुर्यात् ?


  • अहं सशपथं वदामि यत् जगति सङ्घटनम् एकम् एव तादृशी शक्तिः अस्ति, यस्याः च आधारेण सर्वासां समस्यानां निवारणं भवितुम् अर्हति ।


  • अस्माकं समाजे सङ्घटनं निर्माय तस्य बलवत्तता अजेयता च सम्पादनीया इत्येतस्मात् ऋते अन्यत् किमपि करणीयं नास्ति अस्माभिः । एतावत् कृतं चेत् अन्यानि कार्याणि स्वयं प्रवर्तिष्यन्ते, अद्य अस्मान् याः राजनैतिक्यः, सामाजिक्यः, आर्थिक्यः च समस्याः बाधन्ते ताः विनायासं निवारिताः भविष्यन्ति च ।


  • कोऽपि जनः महान् भवेत् चेदपि सः निरन्तरम् अचलः पूर्णः च भवितुं नार्हति । अतः गुरुत्वेन व्यक्तिविशेषस्य स्वीकारात् जायमानां विचित्रां स्थितिम् अनिच्छन्तः वयं जयिष्णुं प्रभविष्णुं भगवद्ध्वजं गुरुं भावितवन्तः, यस्मिन् अस्माकम् इतिहासस्य, परम्परायाः, राष्ट्राय कृतस्य स्वार्थत्यागस्य, राष्ट्रियतासम्बद्धानां सर्वेषां मूलतत्त्वानां च समन्वयः अस्ति । एतस्मात् अचलात् उदात्तात् ध्वजात् या स्फूर्तिः प्राप्येत सा कस्याश्चित् मानवीयविभूतितः प्राप्यमाणायाः स्फूर्तितः अपि श्रेष्ठा अस्ति । (परमपूजनीयः डाक्टर्हेडगेवारः, भारतीयविचारसाधना, पुणे, पृ. - 67-68 )


  • अस्माकं कार्यम् अखिलहिन्दुसमाजाय अस्ति इत्यतः तस्य कस्मिंश्चिदपि अङ्गे यदि उपेक्षा क्रियेत तर्हि कार्यं न सम्पद्येत । उच्चनीचश्रेणीकेषु सर्वेषु अपि हिन्दुषु अस्माकं व्यवहारः समान- प्रेम्णा स्यात् । हिन्दोः नीचत्वेन दूरीकरणं पापकरम् । सङ्घस्य स्वयंसेवकानां मनस्सु तु एतादृश्याः सङ्कुचितभावनायाः अवकाशः कदापि न स्यात् । हिन्दुस्थाने प्रीतिमत्सु सर्वेषु अपि हिन्दुषु अस्माकं व्यवहारः सहोदरे इव स्यात् । जनाः कथं व्यवहरन्ति, किं वदन्ति इत्यस्य न किमपि महत्त्वम् । अस्माकं व्यवहारः यदि आदर्शपूर्णः भवेत् तर्हि सर्वे हिन्दुबान्धवाः ततः आकृष्टाः भवेयुः एव । समग्रः हिन्दुसमाजः एव अस्माकं कार्यक्षेत्रम् । (परमपूजनीयः डाक्टर्हेडगेवारः, भारतीयविचारसाधना, पुणे, पृ. - 71-72)


  • सर्वैः अपि सङ्घस्य स्वयंसेवकैः आकर्षणकेन्द्रैः भवितव्यम् । दशविंशान् जनान् स्वसमीपम् आक्रष्टुं यत् कौशलम् आवश्यकं तत्र प्रावीण्यं प्राप्तव्यम् । कोऽपि एकः गुणः तस्मिन् पूर्णतः स्यात् । यस्य शब्दाः अमृतवर्षिणः स्युः, यस्मिन् परिस्थितेः अवगमनाय सामर्थ्यं स्यात्, कः कस्मिन् कार्ये उपयोगाय भवेत् इति अवगत्य स स जनः तेषु तेषु कार्येषु नियोक्तुं कुशलता यस्मिन् स्यात्, सः एव सङ्घटनं कर्तुम् अर्हति । (परमपूजनीयः डाक्टरहेडगेवारः, भारतीयविचारसाधना - पृ. 100)


  • ‘यथाशक्ति’ समाजकार्यस्य करणम् इति कथनं न युक्तम् । स्वीयस्य परिवारस्य विषये ‘यथाशक्ति’ कार्यं किं क्रियेत ? समाजस्य विषये अपि एषा एव भावना भवेत् । तस्मिन् विषये सन्धिः कर्तुं न शक्यः । ‘विरामसमये’ कार्यकरणम् इत्येषा धारणा अपि कृत्रिमा अज्ञानप्रयुक्ता च । ततः न व्यक्तेः कल्याणं, न वा समाजस्य । निष्कपटभावेन निःस्वार्थबुद्ध्या कार्यकरणम् एव स्वाभाविकं स्यात् ।
"https://sa.wikiquote.org/w/index.php?title=केशवबलिरामहेडगेवारः&oldid=7085" इत्यस्माद् पुनः प्राप्तिः