को ह्येवान्यात् कः प्राण्यात्...

को ह्येवान्यात् कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् ॥ - तैत्तिरीयोपनिषत् २-७-३

यदि अयमात्मानन्दः नाभविष्यत्, को वा प्राणी प्राणव्यापारं कुर्यात् ? को वा जीवितुम् इच्छेत् ?

आत्मनः आनन्दस्वरूपत्वेन विद्यमानत्वादेव सर्वो जन्तुः प्राणनव्यापारं करोति । प्रमाणागोचरोऽपि
सन् आत्मा ‘नास्ति’ इति वक्तुं न शक्यते । मनसोऽपि प्रत्यगात्मत्वेन सूक्ष्मत्वात् आत्मनः ॥

अचेतनोऽयं देहेन्द्रियादिसङ्घातः स्वव्यापारं कुर्वन् अस्ति इत्येतदेव लिङ्गम् आत्मनः अस्तित्वे ।
आत्मार्थो हि सकलेन्द्रियव्यापारः । आत्मने हि इन्द्रियव्यापारजन्यः आनन्दः । आनन्दानुभवार्थं हि
सर्वे प्राणिनः जिजीविषन्ति ? सर्वेषां सर्वविधव्यापारोऽपि आनन्दार्थ एव खलु । अस्माकं सर्वेषां सर्वेऽपि
व्यवहाराः आनन्दार्था एव हि ! आनन्दाभावे को वा जन्तुः बहुकालं जिजीविषेत् ? आत्मा आनन्दस्वरूपः,
आत्मैव ब्रह्म । ब्रह्मैव आनन्दः । एतद्रहस्यं विजानतां विवेकिनां हि ब्रह्मानन्दप्राप्तिः ॥