गद्यकाव्यसूक्तयः (आशा)

<poem> १. आशया हि किमिव न क्रियन्ते । - कादम्बरी, पूर्वभागः

२ . आशा हि नाम प्रायेण नावलम्बितमेवाभीष्टं फलति । - लावण्यमयी, परि० ३

३. इन्द्रजालपिच्छिकेवासम्भाव्यमपि प्रत्याशा पुरः स्थापयति । - कादम्बरी, पूर्वभागः

४. सुहृद्दुःखखेदिते हि मनसि कैव सुखाशा, कैव निर्वृत्तिः । - कादम्बरी, पूर्वभागः

"https://sa.wikiquote.org/w/index.php?title=गद्यकाव्यसूक्तयः_(आशा)&oldid=7984" इत्यस्माद् प्रतिप्राप्तम्