गद्यकाव्यसूक्तयः (कविप्रशंसा)

<poem>

१.      उत्फुल्लगल्लैरालापाः क्रियन्ते दुर्मुखैः सुखम्  ।
जानाति हि पुनः सम्यक् कविरेव कवेः श्रमम् ॥ - नलचम्पू १/२३

२ उत्पादका न बहवः कवयः शरभा इव । - हर्षचरितम् उ० १. २लॊ०६

३ किं कवेस्तेन काव्येन किं काण्डेन धनुष्मतः ।

परस्य हृदये लग्नं न घूर्णयति यच्छिरः ॥ - नलचम्पू १/५

४ किं कवेस्तस्य काव्येन सर्ववृत्तान्तगामिनी ।

कथेव भारती यस्य न व्याप्नोति जगत्रयम् ॥ - हर्षचरितम् १/९

५. कुर्वतः कविताम्भोदौ प्रबन्धेन विजृम्भणम् ।

कवेः प्रौढस्य कस्यास्ति जलमानुषतो भयम् ॥ - उदयसुन्दरीकथा उच्छवासः १

६. प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः ।

भवन्ति कस्यचित् पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥ - नलचम्पू १/४

७. प्रायः कुकवयो लोके रागाधिष्ठितवृत्तयः ।

कोकिला इव जायन्ते वाचालाः कामचारिणः ॥ - हर्षचरितम् १/४

८. विबुधानामन्तःकरणस्य काव्यमयी वृत्तिः अमला । - मन्दारमञ्चरी पूर्वभागः

९. विशकलितैः परकीयैः पदार्थजातैः ।

याचितमण्डनैरिव न भवति शोभा विजातीया ॥ - मन्दारमञ्जरी प्रस्तावना पृ० १९

१०. विषमदृशः उग्रनिसर्गाः कुकवयः उदित्वा अपि विबुधानां चिदिष्टौ

दुर्वर्णमुदीरयन्ति । - मन्दारमञ्चरी पूर्वभागः

११. सत्कथारम्भबन्धेषु नियोजिताः ।

नीचेष्विव भवन्त्यर्थाः प्रायो वैरस्य हेतवः । - तिलकमञ्जरी-श्लो ० १८