गद्यकाव्यसूक्तयः (कविप्रशंसा)
(गद्यकाव्यसूक्तयः (कविप्रशंस्सा) इत्यस्मात् पुनर्निर्दिष्टम्)
<poem>
१. उत्फुल्लगल्लैरालापाः क्रियन्ते दुर्मुखैः सुखम् ।
- जानाति हि पुनः सम्यक् कविरेव कवेः श्रमम् ॥ - नलचम्पू १/२३
२ उत्पादका न बहवः कवयः शरभा इव । - हर्षचरितम् उ० १. २लॊ०६
३ किं कवेस्तेन काव्येन किं काण्डेन धनुष्मतः ।
- परस्य हृदये लग्नं न घूर्णयति यच्छिरः ॥ - नलचम्पू १/५
४ किं कवेस्तस्य काव्येन सर्ववृत्तान्तगामिनी ।
- कथेव भारती यस्य न व्याप्नोति जगत्रयम् ॥ - हर्षचरितम् १/९
५. कुर्वतः कविताम्भोदौ प्रबन्धेन विजृम्भणम् ।
- कवेः प्रौढस्य कस्यास्ति जलमानुषतो भयम् ॥ - उदयसुन्दरीकथा उच्छवासः १
६. प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः ।
- भवन्ति कस्यचित् पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥ - नलचम्पू १/४
७. प्रायः कुकवयो लोके रागाधिष्ठितवृत्तयः ।
- कोकिला इव जायन्ते वाचालाः कामचारिणः ॥ - हर्षचरितम् १/४
८. विबुधानामन्तःकरणस्य काव्यमयी वृत्तिः अमला । - मन्दारमञ्चरी पूर्वभागः
९. विशकलितैः परकीयैः पदार्थजातैः ।
- याचितमण्डनैरिव न भवति शोभा विजातीया ॥ - मन्दारमञ्जरी प्रस्तावना पृ० १९
१०. विषमदृशः उग्रनिसर्गाः कुकवयः उदित्वा अपि विबुधानां चिदिष्टौ
- दुर्वर्णमुदीरयन्ति । - मन्दारमञ्चरी पूर्वभागः
११. सत्कथारम्भबन्धेषु नियोजिताः ।
- नीचेष्विव भवन्त्यर्थाः प्रायो वैरस्य हेतवः । - तिलकमञ्जरी-श्लो ० १८