गद्यकाव्यसूक्तयः (कामः)

<poem>

१ . अयमप्रतीकारदारुणो दुर्विषहवेगः कष्टः कुसुमायुधः, यदनेनाभिभूता

महान्तोऽप्येवमनपेक्षितकालक्रमाः समुत्सारितधैर्याः सद्यो जीवितं जहति । - कादम्बरी पूर्वभागः

२ . आकल्पसारो हि रूपाजीवाजनः। - दशकुमारचरितम् उ०पी०उ०२

३ . आदौ विनयदिकं कुसुमेषुश राः खण्डयन्ति पश्चान्मर्माणि । - कादम्बरी पूर्वभागः

४ . इन्द्रियहरिणहारणी च सततदुरन्तेयमुपभोगमृगतृष्णिका । - कादम्बरी पूर्वभागः

५ . उद्दामप्रसृतेन्द्रियाश्वसमुत्थापितं हि रजः कलुषयति दृष्टिमनक्षजिताम् । - हर्षचरितम् उ ०१

६. कामस्तु विषयातिसक्तचेतसोः स्त्रीपुंसोर्निरतिशयसुखस्पर्शविशेषः । - दशकुमारचरितम् उ०पी०उ०२

७. कुसुमशरशरप्रहारजर्जरिते हि हृदि जलमिव गलत्युपदिष्टम् । - कादम्बरी पूर्वभागः

८. तपावरणशून्ये च हृदि प्रविश्य पदं कुर्वन् केन वा निवारितो दुर्वारः

सर्वाविनयहेतुः कुसुमधन्वा । - कादम्बरी-उत्तरभागः

९. नाशयति च दिङ्मोह इवोन्मार्गप्रवर्तकः पुरुषमत्यासङ्गो विषयेषु । - कादम्बरी-पूर्वभागः

१०. नास्ति खल्वसाध्यं नाम भगवतो मनोभुवः । - कादम्बरी-पूर्वभागः

११. नित्यमस्नानशौचवध्यौ रागमलावलेपः । - कादम्बरी-पूर्वभागः

१२. प्रायेण प्रथमं मदनानलो लज्जां दहति, ततो हृदयम् । - कादम्बरी-पूर्वभागः

१३. वज्रसारकठिनहृदयैरपि दुर्विषहाः स्मरेषवः । - कादम्बरी-उत्तरभागः

१४. विलसति च कुसुम-मार्गणे केन कार्येण छिद्रसहस्राणि न भवन्ति यैः

सत्यमेवाधस्ताद् । - कादम्बरी-उत्तरभागः

१५. वीतरागाणामपि हि रमणीये पुरोवर्तिनि विषये समुदेति दिदृक्षा । - मन्दारमञ्जरी-पूर्वभागः

१६. सततममूलमन्त्रगम्यो विषमो विषयविषास्वादमोहः । - कादम्बरी-पूर्वभागः

१८. सर्वथा न हि किञ्चिदस्य दुर्घटं दुष्करमनायत्तमकर्त्तव्यं वा जगति । - कादम्बरी-पूर्वभागः

१९. स्खलिते चेतसि तल्लग्ना पतत्येव लज्जा । - कादम्बरी-उत्तरभागः