गद्यकाव्यसूक्तयः (कालः)

<poem> १ . क्षणमपि क्षममाणाः गलन्त्यायुष्कलाकलनकुशला निलये निलये कालनालिका: । - हर्षचरितम् उ०८

२ . छिदुरा जीवनपाशतन्त्रीतन्तवः । - हर्षचरितम् उ०८

३ . जगति सर्वजन्तु-जीवितोपहारघातिनी सञ्चरति झटिति चण्डिका यमाज्ञा । - हर्षचरितम् उ०८

४. तृप्तिमशिक्षिता च भगवतः सर्वभूतभुजो बुभुक्षां मृत्योः । - हर्षचरितम् उ०८

५. न सदा समानो व्यत्योति कालः । - शिवराजविजयम् ३/१६

६. पातयति महापुरुषान् सममेव बहूननादरेणैव ।

परिवर्तमान एकः कालः शैलानिवानन्तः ।। - हर्षचरितम् उ०५/२

७. रटन्त्यनवरतमखिल-प्राणिप्रयाण-प्रकटनपटवः प्रेतपतिपटहाः । - हर्षचरितम् उ०८

८. विलक्षणोऽयं सकल-कला-कलाप-कलनः सकल-कालनः करालः कालः । - शिवराजविजयम्-विरामः-१ निःस्वास-१

९. सकललोक-कवलावलेह-लम्पटा बहला बर्हलिहा लेढि लोहिताचिता

चिताङ्गारकाली कालरात्रिजिह्वा जीवितानि जीवितानाम् । - हर्षचरितम्, उ० ८

१०. संसारन्त्यो नक्तिन्दिवं द्राघीयस्यो जन्म-जरा-मरण-घटन-घटीयन्त्र-राजि-रञ्जवः

सर्वपञ्चजनानाम् । - हर्षचरितम्, उ० ८