गद्यकाव्यसूक्तयः (तपः)
<poem> १. आश्चर्यातिशययुक्ताश्च तपः सिद्धयः । - कादम्बरी पूर्वभागः
२ . जातस्य हि रूपगुणविहीनस्यापि जन्मोपनतानि जीवलोकसुखान्यनुभूय
- शोभते परत्र सम्बन्धी तपश्चरणपरिक्लेशः किं पुनराकृतिमतो जनस्य । - कादम्बरी उत्तरभागः
३ . तपसो हि सम्यक् कृतस्य नास्त्यसाध्यं नाम किञ्चित् । - कादम्बरी उत्तरभागः
४. नास्ति खल्वसाध्यं नाम तपसाम् । - कादम्बरी पूर्वभागः
५. शरणागतपरित्राणं हि तपस्विनामपि धर्म एव । - कादम्बरी उत्तरभागः
६. तपः कदापि समृद्धिशालिभिः न साध्यम् । - द्वासुपर्णा पूर्वभागः