गद्यकाव्यसूक्तयः (पशुपक्षिणः)
<poem> १ . क्षुत्पिपासार्दितानां हि पशुपक्षिणां
- निर्विचारचित्तवृत्तीनामुपनतेष्वाहारेष्वनुपयोगो न सम्भवत्येव । - कादम्बरी उत्तरभागः
२ . खेचरा हि बाहुल्येन सदाऽपि भ्रमन्तो वियति विदन्त्येव भूलोकविषयिणः
- प्रदेशान् । - उदयसुन्दरीकथा उच्छ्वासः
३ . तिमिरे हि कौशिकानां रूपं प्रतिपद्यते चक्षुः । - वासवदत्ता
४ . प्रायेण हि पक्षिणः पशवश्च भयाहार-मैथुननिद्रासंज्ञामात्रवेदिनो भवन्ति । - कादम्बरी कथामुखम्