गद्यकाव्यसूक्तयः (राजनीतिः)


१ . अजस्रमक्षपावसानप्रबोधा घोरा च राज्यसुखसंनिपातनिद्रा । - कादम्बरी, पूर्वभागः

२ . अतिक्रान्तशासनाश्च प्रजा यत्किञ्चनवादिन्यो यथाकथञ्चिद्वर्तिन्यः
सर्वाः स्थितीः सङ्किरेयुः । - दशकुमारचरितम्-उत्तरपीठिका उ०८

३ . अतिगम्भीरे भूपे कूप इव जनस्य निरवतारस्य ।
दधति समीहितसिद्धिं गुणवन्तः पार्थिवाः घटकाः । - हर्षचरितम् २/१

४ . अनुचरश्चेत् स्वसमर्पितकार्यातिरेकेण स्वामिनमनुचरेत्, तत् स
एवाधमर्णं विदधाति धनिनम् । - शिवराजविजयम्३/१२

५. अन्यथावृत्तश्च कर्मसु प्रतिहन्यमानः स्वैः परैश्च परिभूयते । - दशकुमारचरितम्, उत्तरपीठिका उ०८

६. अर्थमूला हि दण्डविशिष्टकर्मारम्भाः ।
न चन्यदस्ति पापिष्ठं तत्र दौर्बल्यात् । - दशकुमारचरितम्, उत्तरपीठिका उ०८

७. अहङ्कारदाहज्वरमूर्च्छान्धकारिता विह्वला हि राजप्रकृतिः । - कादम्बरी, पूर्वभागः

८. आगमदीपदृष्टेन खल्वध्वना सुखेन वर्तते लोकयात्रा । - दशकुमारचरितम्, उत्तरपीठिका उ०८

९. आदरो दुर्लभो राज्ञां वस्तुन्यल्पगुणेऽपि च ।
प्रगुणेऽपि सुखप्राप्ते भवेन्ना नमनादरः ॥ - पुरुषपरीक्षा परि० १

१०. आन्वीक्षिकी चतुरमतिस्तु शासकः पर्यालोच्य विविच्य च
कर्तव्याकर्तव्ये विनिश्चयन् संसिद्धिं लभते । - प्रतिज्ञापूर्तिः परि० ५

११. आरूढप्रतापो राजा त्रैलोक्यदर्शीव सिद्धादेशो भवति । - कादम्बरी, पूर्वभागः

१२. उत्साहबलाद्वा प्रभुत्वदर्पाद्वा मन्त्रमविगणय्य प्रवर्तमानस्य राज्ञो न हि
सिद्धिर्वशंवदा प्रायेण । - मन्दारवती, परि० १

१३. उत्शाहवत्ता प्रभुता मन्त्रवत्तेति त्रिशक्त्यात्मिकामामनन्ति हि
बुधास्सर्वारम्भेषु राज्ञां साधनसम्पत्तिम् । - मन्दारवती, परि० १

१४. उत्साहशक्तिः प्रौढपराक्रमचेष्टारूपा, कोशदण्डजा प्रभुशक्तिः,
सन्धिविग्रहादिप्रयोगकुशलता मन्त्रशक्तिरिति । - मन्दारवती, परि० १

१५. उपदिशन्ति हि विनयमनुरूपप्रतिपत्त्युपपादनेन वाचा विनापि भर्तव्यानां
स्वमिनः । - हर्षचरितम्- उ०२

१६. ऋतेऽनुचरेभ्यो राजकार्यं न सिद्ध्यतीति न तद्रक्षा राज्ञां निरभिसन्धिरनुग्रहः। - शिवराजविजयम् ३/१२

१७. एक एव धर्मो राज्ञां यत् स्वीयानां प्रतिपालनं सम्माननं सदा कुशलचिन्तनञ्च । - शिवराजविजयम् ३/११

१८. कार्याकार्यविवेकोपदेशिनीयमान्वीक्षिकी नाम शासकानां दैवं चक्षुः । - प्रतिज्ञापूर्तिः परि०५

१९. केवलं स्वोद्दिष्टपूर्तये यानि-यानि खलु साधनानि नितान्तमपेक्षितानि तेषां
सर्वॆषां संग्रहं विधाय स्वोद्दिष्टं साधयेद् धीमान्-इति राजनीतेः प्रथमः सिद्धान्तः । - प्रतिज्ञापूर्तिः परि०५

२०. काणेन चक्षुषा जन्तुर्यथा किञ्चिन्न पश्यति ।
न पश्यति तथा राजा चारेणानृतभाषिणा ॥ - पुरुषपरीक्षा-परि०५

२१. क्रीडारसेन नर्तयन्तो मयूरतां नयन्ति बालिशाः । - हर्षचरितम् उ०४

२२. गीतनृत्यहसितैरुन्मत्ततामावहन्त्युपेक्षितविकारा इव वातिकाः । - हर्षचरितम् उ०४

२३. चित्तज्ञानानुवर्तिनोऽनर्थ्या अपि प्रियाः स्युः ।
दक्षिणा अपि तद्भाववहिष्कृता द्वेष्या भवेयुः ॥ - दशकुमारचरितम्, उत्तरपीठिका उ०८

२४. चिरयुद्धहतोत्साहाः प्रजा भटाश्च हतोत्साहा भवन्ति इतीदृशेष्वेवावसरेषु
सन्धी राजधर्मः । - शिवराजविजयम् ३/९

२५. दर्पणमिवानुप्रविश्यात्मीयां प्रकृतिं सङ्कामयन्ति पल्लविकाः । - हर्षचरितम् उ०४

२६. न केवलं राज्यसुव्यवस्था प्रजानां समृद्धौ स्वास्थ्ये प्रगतौ वा करणम्....अपितु
राज्ञः सुव्यवस्थाऽपि । - प्रतिज्ञापूर्तिः परि०५

२७. न चावज्ञातस्याज्ञा प्रभवति प्रजानां योगक्षेमाराधनाय । - दशकुमारचरितम्, उत्तरपीठिका उ०८

२८. ननु चतस्रो राजविद्याः, त्रयी वार्ताऽन्वीक्षिकी दण्डनीतिरिति । - दशकुमारचरितम्, उत्तरपीठिका उ०८

२९. न ह्यात्मानमुपेक्ष्य परेषामुपकुरुते लोकतन्त्रनिष्णातो विदग्धो जनः । - मन्दारवती, परि०५

३०. न हि कुलिनानामपत्यानि प्रभुमपवदन्ति तानि हि देहं पातयन्ति, न तु
प्रभुभक्तिम्, प्राणांस्त्यजन्ति न च स्वामिचरणे अनुरागम् । - शिवराजविजयम् ३/११

३१. न हि मुनिरिव नरपतिरुपशमरतिरभिभवितुमरिकुलमलम्,
अवलम्बितुं च लोकतन्त्रम् । - दशकुमारचरितम्, उत्तरपीठिका उ०८

३२. निजवर्षाहितस्नेहा बहुभक्तजनान्विताः ।
सुकाला इव जायन्ते प्रजापुण्येन भूभुजः ॥ - हर्षचरितम् उ० ३ श्लोकः १

३३. निर्मर्यादश्च लोको लोकादितोऽमुतश्च स्वामिनमात्मानं च भ्रंशयते । - दशकुमारचरितम्, उत्तरपीठिका उ०८

३४. निर्विचारं समपक्षपातमन्यायपूर्वकं वा धारितो दण्डः शासकं सपक्षं हिनस्ति । - प्रतिज्ञापूर्तिः, पस्रि० ५

३५. पङ्कनिमग्ने बलाढ्यो गज इव दुराचारिसमावृतो राजा, अवश इव,
संमोहित इव, तेषां मार्गमनुसरति । - प्रतिज्ञापूर्तिः, परि० ३

३६. पशुवत् केवलमिन्द्रियसाक्षात्कारमेव प्रमाणिकुर्वन् स्वस्य सारासारविवेकबुद्धिं
योजयितुमसमर्थो नरः पशुकल्प एव राजनीतौ चात्यन्तमयशस्वी दृष्टः । - प्रतिज्ञापूर्तिः, परि० ५

३७. प्रजापतिनिधयो हि मन्त्रिणो राज्ञामक्षुण्णं चक्षूः । - मन्दारवती परि० १

३८. प्रजाभिस्तु बन्धुमन्तो राजानो न ज्ञातिभिः । - हर्षचरितम् उ०४

३९. प्रतिशब्दक इव राजवचनमनुगच्छति जनो भयात् । - कादम्बरी, पूर्वभागः

४०. प्रथमं राज्याङ्गं दुर्लभाः सद्भृत्याः । - हर्षचरितम् उ०४

४१. प्रायेण परमाणव इव समवायेष्वनुगुणीभूय द्रव्यं कुर्वन्ति पार्थिवं क्षुद्राः । - हर्षचरितम् उ०४

४२. बुद्धिशून्यो हि भूभृदत्युछ्रितोऽपि परैरध्यारुह्यमाणमात्मानं न चेतयते । - दशकुमारचरितम्, उत्तरपीठिका उ०८

४३. भर्तृचिन्तानुवर्तिन्यश्चानुजीविनां प्रकृतयः । - हर्षचरितम् उ०३

४४. भृत्या अपि त एव ये सम्पत्तेर्विपत्तौ सविशेषं सेवन्ते । - कादम्बरी उत्तरभागः

४५. भृत्या हि – वक्षो घ्नतीं मातरम्,---रोदसी रोदयन्ती पत्नीम्---पटान्तमाकर्षतः
पृथुकांश्च तृणवद् विहाय स्वामिकार्यं साधयितुं स्वदेहमर्पयन्ति । - शिवराजविजयम् ३/११

४६. भेदो हि भेद्यस्थलाभ्यन्तरिकसूक्ष्मपरिस्थित्यवलोकनानन्तरं
विचारपूर्वकञ्च नियतं फलदायी भवति । - प्रतिज्ञापूर्तिः परि०५

४७. मन्त्रनिष्णाततया ह्येते मन्त्रिण इति व्यवह्रियन्ते ।
मन्त्रिभिर्मन्त्रयित्वैव प्रारभमाणस्य न हि कार्यजातानि न फलन्ति । - मन्दारवती परि०१

४८. मानसे मीनमिव स्फुरन्तमेवाभिप्रायं गृह्णन्ति जालिकाः । - हर्षचरितम् उ०४

४९. यो हि शासकः स्वयं यतेच्छाचारी प्रजाजनान् तत्कर्तव्यमुपदिशति,
न तदुपदेशं तस्य प्रजाः समनुतिष्ठन्ति । - प्रतिज्ञापूर्तिः परि०५

५०. रजानीतौ तु साध्यपरिपूतं साधनमुपदिश्यते । - प्रतिज्ञापूर्तिः परि०२०

५१. राजनीतौ हि कदाचित् सोदरोऽपि विप्रतीपकारी हन्तव्यो भवति । - प्रतिज्ञापूर्तिः परि०६

५२. राज्यं हि न नाम निरमात्यमसूत्रधारं नाटकमिव पार्यते प्रवर्तयितुम् । - उदयसुन्दरीकथा पृ०८ उच्छ्वासः १

५३. लोकव्यवहारो सर्वप्रमाणमूलमपि राजनीतौ निकृष्टमेव स्थानं लभते प्रस्यक्षम् । - प्रतिज्ञापूर्तिः परि०३

५४. वाक्पारुष्यं दण्डो दारुणो दूषणानि चार्थानामेव यथावकाशमौपकारिकाणि । - दशकुमारचरितम्,उत्तरपीठिका उ०८

५५. वाच्यमानं पुस्तकमिव प्रतिक्षणमवहीयन्ते सकल जनसाधारणानामी
श्वराणामप्यायूंषि । - यशस्तिलकचम्पू, अश्वास-८

५६. विनाशपथपथिकमपि स्वस्वामिनं कटुकेनापि परिणामसुखेन
हितोपदेशेन निर्भीकेण प्रकृतिस्थं विधातुं न प्रयतन्ते राजकोपभीताः । - प्रतिज्ञापूर्तिः, हसूरकर, परि०३

५७. शत्रुरपि संहितो मित्रं भवति । - शिवराजविजयम् ३/१०

५८. शल्यं हृदये निक्षिपन्त्यतिमार्गणाः । - हर्षचरितम् उ०४

५९. शास्त्रज्ञसमाज्ञातो हि यद् ददाति, यन्मानयति यतप्रियं
ब्रवीति, तत्सर्वमति सन्धातु-मित्यविश्वासः । - दशकुमारचरितम्, उत्तरपीठिका उ०८

६०. सङ्ग्रहं नाकुलीनस्य सर्पस्येव करोति यः ।
स एव श्लाध्यते मन्त्री सम्यग् गारुडिको यथा ॥ - हर्षचरितम् उ०४

६१. सति च शासके न्याय्यवर्तने स्वकर्तव्यपालननिष्ठुरे तदधीनाः सर्वेऽपि
राजपुरुषाः प्रधाना अप्रधाना वा स्वकर्तव्ये दत्तचित्ता भवन्ति । - प्रतिज्ञापूर्तिः परि०५

६२. सत्ये एव च स्वस्वकार्यकरणक्षमे शासनयन्त्रे समाजस्याभ्युन्नतिः कर्तुं शक्या । - प्रतिज्ञापूर्तिः परि०५

६३. सस्मुद्यतदण्डो धर्मशास्त्रानुज्ञातमेव मार्गमनुसरन् प्रजापालनदक्षः शासकः
संस्कृतेः सभ्यतायाः कलानां शास्त्राणां विविधानामुद्यमानाञ्चोत्कर्षे निमित्ती भवति । - प्रतिज्ञापूर्तिः परि०५

६४. स्वजीविकाव्यवसायानुशीलनमिव साम्राज्यरक्षणार्थं क्षात्रतेजः
संवर्धनमपि यूनां कृते अत्यावश्यकम् । - प्रतिज्ञापूर्तिः परि०३

६५. स्वयमसद्वृत्तो हि शासकः प्रजानुरागं स्वसम्मानं शासनाधिकारञ्च
युगपदेव जहाति । - प्रतिज्ञापूर्तिः परि०५

६६. स्वप्ना इव मिथ्यादर्शनैरसद्बुद्धिं जनयन्ति विप्रलम्भकाः । - हर्षचरितम् उ०४