गद्यकाव्यसूक्तयः (लक्ष्मीः)

<poem>

१ . अनया (लक्ष्म्या) दुराचारया कथमपि दैववशेन परिगृहीता विक्लवा भवन्ति

राजानः सर्वविनयाधिष्ठानतां च गच्छन्ति । - कादम्बरी पूर्वभागः

२ . अपरिणामोपशमो दारुणो लक्ष्मीमदः । - कादम्बरी पूर्वभागः

३ . जलबुद्बुदसमाना विराजमाना सम्पत् तडिल्लतेव

सहसैवोदेति नश्यति च । - दशकुमरचरितम्, पूर्व्वपीठिका उ०१

४. दृढगुणा-सन्दान-निस्पन्दीकृतापि नश्यति (लक्ष्मीः) । - कादम्बरी पूर्वभागः

५. न ह्येवंविधमपरिचितमिह जगति किञ्चिदस्ति यथेयमनार्या (लक्ष्मी:) । - कादम्बरी पूर्वभागः

६. पाणिपरिगृहीता भुजङ्गीव सकृदेव मोक्तुमश्क्या चेयं राजलक्ष्मीः । - यशस्तिलकचम्पू, आश्वासः ४

७. यथा यथा चेयं चपला (लक्ष्मीः) दीप्यते तथा तथा दीपशिखेव

कज्जलमलिनमेव कर्म केवलमुद्वमति । - कादम्बरी पूर्वभागः

८. राजविषविकारतन्द्राप्रदा राजलक्ष्मीः । - कादम्बरी पूर्वभागः

९. लब्धापि (लक्ष्मीः) खलु दुःखेन परिपाल्यते । - कादम्बरी पूर्वभागः

१०. विद्वांसमपि सचेतनमपि महासत्त्वमप्यभिजातमपि धीरमपि

प्रयत्नवन्तमपि पुरुषमियं दुर्विनीता खलीकरोति लक्ष्मीः । - कादम्बरी पूर्वभागः पृष्ठम् ३७४

११. श्रियो हि दोषा अन्धतादयो कामला विकारः । - हर्षचरितम्, उच्छ्वासः ६

१२. सम्पदो हि चलप्रायाः कालक्रमेणाविर्भवन्ति तिरोभवन्ति च । - मन्दारमञ्जरी, पूर्वभागः