गद्यकाव्यसूक्तयः (वीरता)

<poem> वीरता

१ . अङ्गनवेदी वसुधा जलधिः कुल्या स्थली च पातालम् ।

वल्मीकश्च सुमेरुः कृतप्रतिज्ञस्य वीरस्य । - हर्षचरितम् उ०७/१

२ . अपरिमितयशःप्रकरप्रवर्षी भवति विकासी वीररसः । - हर्षचरितम् उ०६

३ . जलेऽपि ज्वलन्ति ताडितास्तेजस्विनः । - हर्षचरितम् उ०६

४ . न स्पृशत्येवातितेजस्विनं शोकः । - हर्षचरितम् उ०६

५. पुरः प्रवृत्तप्रतापप्रहताः पन्थानः पौरुषस्य । - हर्षचरितम् उ०६

६. प्रतापसहाया हि सत्त्ववन्तः । - हर्षचरितम् उ०६

७. सङ्कल्पान्तरितो विजयस्तरस्विनाम् । - हर्षचरितम् उ०८

८. स्थायिनि यशसीव शरीरधीर्वीराणाम् । - हर्षचरितम् उ०६