गद्यकाव्यसूक्तयः (स्त्रीस्वभावः)

<poem> १ . अबलानां हि प्रायशः पतिरपत्यं वावलम्बनम् । - हर्षचरितम् उ ० ८

२ . अविषह्यं हि योषितामनङ्गशरीर-निषङ्गीभूतचेतसामनिष्टजनसंवासयन्त्रणादुःखम् । - दशकुमारचरितम् उ०पी०उ०३

३ . ईश्वरः सर्वत्र वर्तते इति मनसि कृत्वा ।

सर्वेषां चराचराणां कल्याणं विधातव्यम् । - द्वासुपर्णा-पूर्वभागः

४ . गृहलक्ष्म्य एव भवन्ति गेहस्थाः सद्गृहस्थरमण्यः । - ललितकथा-कल्पलता कथा-१

५. चमत्कारिषु चित्रेषु भूषणेष्वम्बरेषु च ।

लोभो भवति नारीणां फलेषु कुसुमेषु च ॥ - पुरुषपरीक्षा ४/४१

६. दुग्धदग्धो जनस्तक्रमपि व्यजनैर्वीजयित्वा पिबति । - शिवराजविजयम् ३/१२

७. दौर्भाग्यं नाम जीवन्मरणमेवाङ्गनानां, विशेषतश्च कुलवधूनाम् । - दशकुमारचरितम्, उ०पी०उ३०३

८. न सुमेरुवप्रप्रणयप्रगल्भा वा दिक्करिणः परिणमन्त्यणीयसि वल्मीके । - हर्षचरितम् उ०६

९. न हि कुलशैलनिवहवाहिनो वायवः संनह्यन्त्यतितरले तूलराशौ । - हर्षचरितम् उ०६

१०. परिणामेऽपि पुण्यवतां केषाञ्चिदेव केशैः

सहधवलिमानमापद्यन्ते चरितानि । - कादम्बरी-उत्तरार्घः

११. पुरुषेष्वत्यन्तानुरक्तास्त्रिय आत्मानमर्थांश्च समूलकाषं कषन्ति । - दशकुमारचरितम्, उ०पी०उ३०३

१२. पतिरेव दैवतं वनितानां विषेषतश्च कुलजानाम् । - दशकुमारचरितम्, उ०पी०उ३०३

१३. पुरुषस्तु योषिदनुपातेन स्वल्पमेव सन्मार्गम् उच्चरते । - कौमुदीकथा कलोलिनी पश्चार्धभागः

१४. प्रत्यक्षदृष्टभावाप्यस्थिरहृदया हि कामिनि भवति । - वासवदत्त पू०२०५

१५. प्रमाणाभासशरणा अपि प्राणिनः प्रावेषु स्पृह्यं प्रतिपद्यन्ते । - मन्दारमञ्जरी-पूर्वभागः

१६. प्रसिद्धिरत्नायशसे यशसे वा दोषगुणाश्रया वा फलवती । - कादम्बरी-उत्तरभागः

१७. प्रायः प्राणिनामीशः शम्भुरेव शुभाशुभं कर्मालोक्य तुलाधर इव

तुलितं फलमुपकल्पयति । - नलचम्पू उ०-३

१८. भोगः कर्मणः पृष्ठभूः । त्यागः कर्मणः परिपाकता । भोगः त्यागश्च इति

	मार्गद्वयं संसारस्य  ।	-							 विसर्गः-पृ० १४

१९. मृदलस्वभावमपि जलमिव मुक्ताफलतामपगतं कठिनीभवत्युत्कण्ठितं

हृदयमबलाजनस्य । - कादम्बरी-उत्तरभागः

२०. यत्र च चिरं युद्धानि भवन्ति, तत्रैव प्रायशो रोगा आपतन्ति तत्रैव दरिद्रता

पदमादधाति, तत्रैव च सर्वां महार्घतामाप्नुवद् भयानकं दुर्भिक्षं जनयति । - शिवराजविजयम्, ३/९

२१. यदि प्राणदानैरपि स्वदेशो दुराचारां त्रातुं न शक्यते, अथच्छलेन शक्ष्यते  ? - शिवराजविजयम्, ३/९

२२. यस्यामेष वेलायं चित्तवृत्तिः सैव वेला सर्वकार्येषु । - कादम्बरी-उत्तरभागः

२३. युज्यत एव रमणीये जने सहृदयानां हृदायाभिनिवेशः । - मन्दारमञ्जरी-पूर्वभागः

२४. रमणीयरूपं रमणीमन्याम् ईर्ष्याकषायित-हृदयां कथं मोदयति । - इक्षुगन्धा, कथा-६

२५. रूपसम्पन्नमग्राम्यं प्रेमप्रायं प्रियंवदम् ।

कुलीनमनुकूलं च कलत्रं कुत्र लभ्यते । - नलचम्पू २/२२

२६. लोककल्याणवृत्तिर्हि भगवतः श्रेष्ठाराधना । - द्वासुपर्णा-पूर्वभागः

२७. विकाराणां च कारणं प्रायः सरसता ।

सा च सर्वमेव जलप्रायं कुर्वाणा वर्षातिवृद्धयैवोपजायते । - कादम्बरी-उत्तरभागः

२८. विवाहो नाम ऐकात्म्यं खलु । - विसर्गः पृ०८

२९. व्याविद्धकण्टको न कण्टकाऽऽकुलेन पथा पौनः पुन्येन प्रचलति । - शिवराजविजयम् ३/१२

३०. सञ्जातरूपाभिमाना कुलटेवात्मसम्भावना न किञ्चिन्नात्मानमर्षयति । - कादम्बरी, पूर्वभागः

३१. सम्मोहनस्य अभिलेखरूपेण नारी अत्र पुष्पायते ।

तदीयभाग्यलिपिषु फलायते तु यन्त्रणानानार्थकोशः ॥ - हर्षचरितम्, १/२१

३२. सर्वस्याप्रार्थितोऽपि प्रभवत्यतिवेलं चक्षुष्यो जनः । - हर्षचरितम् उ०२

३३. सहजलज्जाधनस्य प्रमदाजनस्य प्रथमाभिभाषाणमशालीनता । - दशकुमारचरितम्,उ०पी०उ०३

३४. सर्व एव ह्यविनयप्रवृत्तोऽनुतापाद् विना न निवर्तते । - कादम्बरी, उत्तरभाग:

३५. स्स्त्रियो हि विषयः शुचाम् । - हर्षचरितम् उच्छ्वासः ६

३६. स्त्रियो हि नाम त्रिवर्गैकसाधनं सुखैकायतनं यशसोऽर्थस्य सन्ततेश्च भूताः । - शृङ्गारमञ्जरी, कथा १३, पृ०८४

३७. स्वकीयदुर्वृतिदुराग्रहग्रहिला महिला निसर्गेणैव शठा भवन्ति । - कौमुदीकथाकल्लोलिनि-कल्लोलः ९

३८. स्वप्न इवाननुभूतमपि मनोरथो दर्शयति । - कादम्बरी, पूर्वभागः

३९. स्वप्नेषु विगलितवेदनाः स्फुटं प्राणिनः । - कादम्बरी, उत्तरभागः