गुणः
- अचेतनं नाम गुणं न लक्षयेत् ।
- अभिज्ञानशाकुन्तलम्,, ६. १३
- जगत् विश्वस्तं मे निवसति गुणो नष्टमयशः ।
- पञ्चरात्रम्, १.११
- मृतैः प्राप्यः स्वर्गॊ यदिह कथयत्येतदनृतं ।
- परोक्षॊ न स्वर्गो बहुगुणमिहैवैष फलति ॥
- पञ्चरात्रम्, १.२१
- न वसन्त्येकत्र सर्वॆ गुणाः ।
- महावीरचरितम्, १. ३३
- शास्त्रॆ प्रतीष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी ।
- कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुधाः क्रियासु ॥
- मालतीमाधवम्, ३, ११
- गुणवान् रक्षितव्यो भवति ।
- चारुदत्तम्, पृ ० ७८
- हतेषु देहेषु गुणा धरन्ते ।
- कर्णभारम्, पृ ० २८
- समाने प्रभवादौ च गुणवत्ता तथेतरा ।
- समुद्रादेव जायन्ते मुक्ताश्चापि वराटिकाः ॥
- यज्ञफलम्, ३. २६
- आकृतिमनुगृह्नन्ति गुणाः ।
- विद्धशालभञ्जिका-नाटिका, पृ ०४२
- गुणेषु यत्नः पुरुषेण कर्यो न किञ्चिदप्राप्यतमं गुणानाम् ।
- मृच्छकटिकम्, ४.२३
- गूणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा ।
- मृच्छकटिकम्, ४.२२
- गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः ।
- उत्तररामचरितम्, पृ ० १०८
- पुरुषः शूद्रो भवेदुच्चकुलसूतो वा ?
- गुणस्तत्र भवन्ति मुख्याः ॥
- अंगुष्टदानम्, पृ ० ६६