यदि कश्चन गोः विषाणं खादितुम् उपक्रमते चेत् तेन किं लभ्यते ? गोविषाणखादनेन दन्तनाशः, आयुर्नाशः इत्यादिकं भवति । एवं निरर्थकस्य कर्मणः वर्णनार्थम् अस्य न्यायस्य प्रयोगो भवति । यथा-

अपार्थकममानुष्यं गोविषाणस्य भक्षणम् ।

दन्ताश्च परिघृष्यन्ते रसश्चापि न लभ्यते ॥ महाभारतशान्तिपर्वणि १२८-५७

"https://sa.wikiquote.org/w/index.php?title=गोविषाणन्यायः&oldid=9749" इत्यस्माद् प्रतिप्राप्तम्