विदुरनीतिः (अध्यायः ३८)

(ग्रन्थाः/नीतिग्रन्थाः/विदुरनीतिः/अध्यायः ३८ इत्यस्मात् पुनर्निर्दिष्टम्)


विदुर उवाच ।

ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति ।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्पतिपद्यते ॥ १॥

पीठं दत्त्वा साधवेऽभ्यागताय
आनीयापः परिनिर्णिज्य पादौ ।
सुखं पृष्ट्वा प्रतिवेद्यात्म संस्थं
ततो दद्यादन्नमवेक्ष्य धीरः ॥ २॥

यस्योदकं मधुपर्कं च गां च
न मन्त्रवित्प्रतिगृह्णाति गेहे ।
लोभाद्भयादर्थकार्पण्यतो वा
तस्यानर्थं जीवितमाहुरार्याः ॥ ३॥

चिकित्सकः शक्य कर्तावकीर्णी
स्तेनः क्रूरो मद्यपो भ्रूणहा च ।
सेनाजीवी श्रुतिविक्रायकश् च
भृशं प्रियोऽप्यतिथिर्नोदकार्हः ॥ ४॥

अविक्रेयं लवणं पक्वमन्नं दधि
क्षीरं मधु तैलं घृतं च ।
तिला मांसं मूलफलानि शाकं
रक्तं वासः सर्वगन्धा गुडश् च ॥ ५॥

अरोषणो यः समलोष्ट काञ्चनः
प्रहीण शोको गतसन्धि विग्रहः ।
निन्दा प्रशंसोपरतः प्रियाप्रिये
चरन्नुदासीनवदेष भिक्षुकः ॥ ६॥

नीवार मूलेङ्गुद शाकवृत्तिः
सुसंयतात्माग्निकार्येष्वचोद्यः ।
वने वसन्नतिथिष्वप्रमत्तो
धुरन्धरः पुण्यकृदेष तापसः ॥ ७॥

अपकृत्वा बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् ।
दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥ ८॥

न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ ९॥

अनीर्ष्युर्गुप्तदारः स्यात्संविभागी प्रियंवदः ।
श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत् ॥ १०॥

पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः ।
स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः ॥ ११॥

पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम् ।
गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत् ।
भृत्यैर्वणिज्याचारं च पुत्रैः सेवेत ब्राह्मणान् ॥ १२॥

अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ १३॥

नित्यं सन्तः कुले जाताः पावकोपम तेजसः ।
क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥ १४॥

यस्य मन्त्रं न जानन्ति बाह्याश्चाभ्यन्तराश् च ये ।
स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते ॥ १५॥

करिष्यन्न प्रभाषेत कृतान्येव च दर्शयेत् ।
धर्मकामार्थ कार्याणि तथा मन्त्रो न भिद्यते ॥ १६॥

गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः ।
अरण्ये निःशलाके वा तत्र मन्त्रो विधीयते ॥ १७॥

नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम् ।
अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान् ।
अमात्ये ह्यर्थलिप्सा च मन्त्ररक्षणमेव च ॥ १८॥

कृतानि सर्वकार्याणि यस्य वा पार्षदा विदुः ।
गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम् ॥ १९॥

अप्रशस्तानि कर्माणि यो मोहादनुतिष्ठति ।
स तेषां विपरिभ्रंशे भ्रश्यते जीवितादपि ॥ २०॥

कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम् ।
तेषामेवाननुष्ठानं पश्चात्तापकरं महत् ॥ २१॥

स्थानवृद्ध क्षयङ्य़स्य षाड्गुण्य विदितात्मनः ।
अनवङ्य़ात शीलस्य स्वाधीना पृथिवी नृप ॥ २२॥

अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः ।
आत्मप्रत्यय कोशस्य वसुधेयं वसुन्धरा ॥ २३॥

नाममात्रेण तुष्येत च्हत्रेण च महीपतिः ।
भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत् ॥ २४॥

ब्राह्मणो ब्राह्मणं वेद भर्ता वेद स्त्रियं तथा ।
अमात्यं नृपतिर्वेद राजा राजानमेव च ॥ २५॥

न शत्रुरङ्कमापन्नो मोक्तव्यो वध्यतां गतः ।
अहताद्धि भयं तस्माज्जायते नचिरादिव ॥ २६॥

दैवतेषु च यत्नेन राजसु ब्राह्मणेषु च ।
नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च ॥ २७॥

निरर्थं कलहं प्राङ्य़ो वर्जयेन्मूढ सेवितम् ।
कीर्तिं च लभते लोके न चानर्थेन युज्यते ॥ २८॥

प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः ।
न तं भर्तारमिच्च्हन्ति षण्ढं पतिमिव स्त्रियः ॥ २९॥

न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये ।
लोकपर्याय वृत्तान्तं प्राङ्य़ो जानाति नेतरः ॥ ३०॥

विद्या शीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत ।
धनाभिजन वृद्धांश्च नित्यं मूढोऽवमन्यते ॥ ३१॥

अनार्य वृत्तमप्राङ्य़मसूयकमधार्मिकम् ।
अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ॥ ३२॥

अविसंवादनं दानं समयस्याव्यतिक्रमः ।
आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक् ॥ ३३॥

अविसंवादको दक्षः कृतङ्य़ो मतिमानृजुः ।
अपि सङ्क्षीण कोशोऽपि लभते परिवारणम् ॥ ३४॥

धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा ।
मित्राणां चानभिद्रोहः सतैताः समिधः श्रियः ॥ ३५॥

असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः ।
तादृङ्नराधमो लोके वर्जनीयो नराधिप ॥ ३६॥

न स रात्रौ सुखं शेते स सर्प इव वेश्मनि ।
यः कोपयति निर्दोषं स दोषोऽभ्यन्तरं जनम् ॥ ३७॥

येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत ।
सदा प्रसादनं तेषां देवतानामिवाचरेत् ॥ ३८॥

येऽर्थाः स्त्रीषु समासक्ताः प्रथमोत्पतितेषु च ।
ये चानार्य समासक्ताः सर्वे ते संशयं गताः ॥ ३९॥

यत्र स्त्री यत्र कितवो यत्र बालोऽनुशास्ति च ।
मज्जन्ति तेऽवशा देशा नद्यामश्मप्लवा इव ॥ ४०॥

प्रयोजनेषु ये सक्ता न विशेषेषु भारत ।
तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः ॥ ४१॥

यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः ।
यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः ॥ ४२॥

हित्वा तान्परमेष्वासान्पाण्डवानमितौजसः ।
आहितं भारतैश्वर्यं त्वया दुर्योधने महत् ॥ ४३॥

तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वं नचिरादिव ।
ऐश्वर्यमदसंमूढं बलिं लोकत्रयादिव ॥ ४४॥

॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि
विदुरवाक्ये अष्टत्रिंशोऽध्यायः ॥ ३८॥