ग्रीष्म-ऋतुः

सम्पाद्यताम्

१. प्रदृद्धतापो दिवसोऽतिमात्रमत्यर्थमेव क्षणदा च तन्वी ॥ रघु० १६।४५॥

२. दिने दिने शैवलवन्त्यधस्तात्सोपानपर्वाणि विमुञ्चदम्भः ।

उद्दण्डपद्मं गृहदीर्घिकाणां नारी नितम्बद्वयसम्बभूव ॥ रघु० १६।४६॥

३. वनेषु सायन्तनमल्लिकानां विजृम्भणोद्गन्धिषु कुड्मलेषु ।

प्रत्येकनिक्षिप्तपदः सशब्दं संख्यामिवैषां भ्रमरश्चकार ॥ रघु० १६।४७॥

४. स्वेदानुविद्धार्द्रनखक्षताङ्के भूयिष्ठसन्दष्टशिखं कपोले ।

च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहसा पपात ॥ रघु० १६।४८॥

५. स्नानार्द्रमुक्तेष्वनुधूपवासं विन्यस्तसायन्तनमल्लिकेषु ।

कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलमङ्गनानाम् ॥ रघु० १६।५०॥

६. पत्रच्छायासु हंसा मुकुलितनयना दीर्घिका पद्मिनीनाम्,

सौधान्यत्यर्थतापाद् बलभिपरिचयद्वेषिपारावतानि ।
बिन्दुक्षेपान्पिपासुः परिसरति शिखी भान्तिमद्वारियन्त्रम्-
सर्वैरुस्रैः समग्रैस्त्वमिव नृपगुणैर्दीप्यते सप्तसप्तिः ॥ मालविका० २।१२॥

७. प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः सदावगाहक्षतवारिसञ्चयः ।

दिनान्तरम्योऽभ्युपशान्तमन्मथो निदाघकालोऽयमुपागतः प्रिये ॥ ऋतु० १।१॥

८. पयोधराश्चन्दनपङ्कचर्चितास्तुषारगौरार्पितहारशेखराः ।

नितम्बदेशाश्च सहेममेखलाः प्रकुर्वते कस्य मनो न सोत्सुकम् ॥ ऋतु० १।६॥

९. असह्यवातोद्धतरेणमुण्डला प्रचण्डसूर्यातपातपिता मही ।

न शक्यते द्रष्टुमपि प्रवासिभिः प्रियावियोगानलदग्धमानसैः ॥ ऋतु० १।१०॥

१०. रवेर्मयूखैरभितापितो भृशं विदह्यमानः पथि तप्तापांसुभिः ।

अवाङ्मुखो जिह्मगतिः श्वसन्मुहुः फणी मयूरस्य तले निषीदति ॥ ऋतु० १।१३॥

११. हुताग्निकल्पैः सवितुर्गभस्तिभिः कलापिनः क्लान्तशरीरचेतसः ।

न भोगिनं घ्नन्ति समीपवर्तिन कलापचक्रेषु निवेशिताननम् ॥ ऋतु० १।१६॥

१२. रविप्रभोद्भिन्नशिरोमणिप्रभा विलोलजिह्वाद्वयलीढमारुतः ।

विषाग्निसूर्यातपतापितः फणी न हन्ति मण्डूककुलं तृषाकुलः ॥ ऋतु० १।२०॥

१३. गजगवयमृगेन्द्रा वह्निसन्तप्तदेहाः,

सुहृद इव समेता द्वन्द्वभावं विहाय ।
हुतवहपरिखेदादाशु निर्गत्य कक्षाद्,
विपुलपुलिनदेशान्निम्नगां संविशन्ति ॥ ऋतु० १।२७॥

१४. कमलवनचिताम्बुः पाटलामोदरम्यः,

सुखसलिलानिषेकः सेव्यचन्द्रांशुहारः ।
व्रजतु तव निदाघः कामिनीभिः समेतो,
निशि सुललितगीते हर्म्यपृष्ठे सुखेन ॥ ऋतु० १।२८॥

१५. सुभगसलिलावगाहाः पाटलसंसर्गिसुरभिवनवाताः ।

प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥ शाकुन्तल १।३॥

वर्षा-ऋतुः

सम्पाद्यताम्

१. ससीकराम्भोधरमत्तकुञ्जरस्तडित्पताकोऽशनिशब्दमर्दलः ।

समागतो राजवदुद्धरद्युतिर्घनागमण् कामिजनप्रियः प्रिये ॥ ऋतु० २।१॥

२. नितान्तनीलोत्पलपत्रकान्तिभिः क्वचित्प्रभिन्नाञ्जनराशिसन्निभैः ।

क्वचित्सगर्भप्रमदास्तनप्रभैः समाचितं व्योम घनैः समन्ततः ॥ ऋतु० २।२॥

३. बलाहकाश्चाऽशनिशब्दमर्दलाः सुरेन्द्रचापं दधतस्तडिद्गुणम् ।

सुतीक्ष्णाधारापतनोग्रसायकैस्तुदन्ति चेतः प्रसभं प्रवासिनाम् ॥ ऋतु० २।४॥

४. निपातयन्त्यः परितस्तटद्रुमान् प्रवृद्धवेगैः सलिलैरनिर्मलैः ।

स्त्रियः सुदुष्टा इव जातविभ्रमाः प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ॥ ऋतु० २।७॥

५. पयोधरैर्भीमगभीरनिःस्वनैस्तडिद्भिरुद्वेजितचेतसो भृशम् ।

कृतापराधानपि योषितः प्रियान्परिष्वजन्ते शयने निरन्तरम् ॥ ऋतु० २।११॥

६. विलोचनेन्दीवरवारिबिन्दुभिर्निषिक्तबिम्बाधरचारुपल्लवाः ।

निरस्तमाल्याभरणानुलेपनाः स्थिता निराशाः प्रमदाः प्रवासिनाम् ॥ ऋतु० २।१२॥

७. शिरोरुहैः श्रोणितटावलम्बिभिः कृतावतंसैः कुसुमैः सुगन्धिभिः ।

स्तनैः सहारैः ससीधुभिः स्त्रियो रतिं सञ्जनयन्ति कामिनाम् ॥ ऋतु० २।१८॥

८. वहन्ति वर्षन्ति नदन्ति भान्ति रुदन्ति नृत्यन्ति समाश्रयन्ति ।

नद्यो घना मत्तगजा वनान्ताः प्रियाविहीनाः शिखिनः प्लवङ्गाः ॥ ऋतु० २।१९॥

९. कालागुरुप्रचुरचन्दनचर्चिताङ्ग्यः,

पुष्पावतंससुरभिकृतकेशपाशाः ।
श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे,
शय्यागृहं गुरुगृहात्प्रविशन्ति नार्यः ॥ ऋतु० २।२२॥

१०. बहुगुणरमणीयः कामिनीचित्तहारी,

तरुविटपलतानां बान्धवो निर्विकारः ।
जलदसमय एष प्राणिनां प्राणभूतो,
दिशतु तव हितानि प्रायशो वाञ्छितानि ॥ ऋतु० २।१९॥

११. मेघालोके भवति सुखिनोऽप्यन्यथावृत्तिचेतः ।

कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ पू० मे० ३॥

१२. कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायाम् ॥ पू० मे० ८॥

शरत्-शिशिर-ऋतुः

सम्पाद्यताम्

१. पुण्डरीकातपत्रस्तं विकसत्काशचामरः ।

ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम् ॥ रघु० ४।१७॥

२. हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु ।

विभूतयस्तदीयानां पर्यस्ता यशसामिव ॥ रघु० ४।१९॥

३. प्रससादोदयादम्भः कुम्भयोनेर्महौजसः ॥ रघु० ४।२१॥

४. सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् ।

यात्रायै चोदयामास तं शक्तेः प्रथमं शरत् ॥ रघु० ४।२४॥

५. काशाशुंका विकचपद्ममनोज्ञवक्त्रा,

सोन्मादहंसरवनूपुरनादरम्या ।
आपक्वशालिरुचिरा नतगात्रयष्टिः,
प्राप्ता शरन्नववधूरिव रूपरम्या ॥ ऋतु० ३।१॥

६. काशैर्मही शिशिरदीधितिना रजन्यो,

हंसैर्जलानि सरितां कुमुदैः सरांसि ।
सप्तच्छदैः कुसुमभारनतैर्वनान्ताः,
शुक्लीकृतान्युपवनानि च मालतीभिः ॥ ऋतु० ३।२॥

७. तारागणप्रवरभूषणम् उद्वहन्ती,

मेघावरोधपरिमुक्तशशाङ्कवक्त्रा ।
ज्योत्स्नादुकूलममलं रजनी दधाना,
वृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ॥ ऋतु० ३।७॥

८. हंसैर्जिता सुललिता गतिरङ्गनाना-

मम्भोरुहैर्विकसितैर्मुखचन्द्रकान्तिः ।
नीलोत्पलैर्मदकलानि विलोकितानि,
भ्रूविभ्रमाश्च रुचिरास्तनुभिस्तरङ्गैः ॥ ऋतु० ३।१७॥

९. शरदि कुमुदसङ्गाद्वायवो वान्ति शीता,

विगतजलदवृन्दा दिग्विभागा मनोज्ञाः ।
विगतकलुषमम्भः श्यानपङ्का धरित्री,
विमलकिरणचन्द्रं व्योम ताराविचित्रम् ॥ ऋतु० ३।२२॥

१०. करकमलमनोज्ञाः कान्तसंसक्तहस्ता,

वदनविजितचन्द्राः काश्चिदन्यास्तरुण्यः ।

११. विकचकमलवक्त्रा फुल्लनीलोत्पलाक्षी,

विकसितनवकाशश्वेतवासो वसाना ।
कुमुदरुचिरकान्तिः कामिनीवोन्मदेयम्,
प्रतिदिशतु शरद्वश्चेतसः प्रीतिमग्र्याम् ॥ ऋतु० ३।२८॥

१२. निरुद्धवातायन मन्दिरोदरम्,

हुताशनो भानुमतो गभस्तयः ।
गुरूणि वासांस्यबलाः सयौवनाः,
प्रयान्ति कालेऽत्र जनस्य सेव्यताम् ॥

१३. न चन्दनं चन्द्रमरीचिशीतलं न हर्म्यपृष्ठं शरदिन्दुनिर्मलम् ।

न वायवः सान्द्रतुषारशीतला जनस्य चित्तं रमयन्ति साम्प्रतम् ॥ ऋतु० ५।३॥

१४. प्रचुरगुडविकारः स्वादुशालीक्षुरम्यः,

प्रबलसुरतकेलिर् जातकन्दर्पदर्पः ।
प्रियजनरहितानां चित्तसन्तापहेतुः,
शिशिरसमय एष श्रेयसे वोऽस्तु नित्यम् ॥ ऋतु० १६॥

हेमन्त-ऋतुः

सम्पाद्यताम्

१. नवप्रवालोद्गमसस्यरम्यः प्रफुल्ललोध्रः परिपक्वशालिः ।

विलीनपद्मः प्रपतत्तुषारो हेमन्तकालः समुपागतोऽयम् ॥ ऋतु० ४।१॥

२. प्रफुल्लनीलोत्पलशोभितानि सोन्मादकादम्बविभूषितानि ।

प्रसन्नतोयानि सुशीतलानि सरांसि चेतांसि हरन्ति पुंसाम् ॥ ऋतु० ४।९॥

३. मार्गं समीक्ष्यातिनिरस्तनीरं प्रवासखिन्नं पतिमुद्वहन्त्यः ।

अवेक्ष्यमाणा हरिणेक्षणाक्ष्यः प्रबोधयन्तीव मनोरथानि ॥ ऋतु० ४।१०॥

४. दन्तच्छदैः सव्रणदन्तचिह्नैः स्तनैश्च पाण्यग्रकृताभिलेखैः ।

संसूच्यते निर्दयमङ्गनानां रतोपभोगो नवयौवनानाम् ॥ ऋतु० ४।१३॥

५. अन्या प्रकामसुरतश्रमखिन्नदेहा रात्रिप्रजागरविपाटलनेत्रपद्मा ।

स्रस्तांसदेशलुलिताकुलकेशपाशा निद्रां प्रयाति मृदुसूर्यकराभितप्ता ॥ ऋतु० ४।१५॥

६. अन्याश्चिरं सुरतकेलिपरिश्रमेण,

खेदं गताः प्रशिथिलीकृतगात्रयष्ट्यः ।
संहृष्यमाण – पुलकोरुपयोधरान्ता,
अभ्यञ्जनं विदधति प्रमदाः सुशोभाः ॥ ऋतु० ४।१८॥

७. बहुगुणरमणीयो योषितां चित्तहारी,

परिणतबहुशालिव्याकुलग्रामसीमा ।
विनिपतिततुषारः क्रौञ्चनादोपगीतः,
प्रदिशतु हिमयुक्तः कालः एषः सुखं वः ॥ ऋतु० ४।१९॥

वसन्त- ऋतुः

सम्पाद्यताम्

१. कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम् ।

इति यथाक्रममाविरभून्मधुर्द्रुमवतीमवतीर्य वनस्थलीम् ॥ रघु० ९।४२॥

२. अमदयन्मधुसनाथया किसलयाधरसङ्गतया मनः ।

कुसुमसम्भृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ॥ रघु० ९।४२॥

३. अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः ।

परभृताविरुतैश्च विलासिनः स्मरबलैकरसाः कृताः ॥ रघु० ९।४३॥

४. ध्वजपटं मदनस्य धनुर्भृतश्छविकरं मुखचूर्णमृतुश्रियः ।

कुसुमकेसररेणुमलिव्रजाः सपवनोपवनोत्थितमन्वयुः ॥ रघु० ९।४५॥

५. त्यजत मानमलं बत विग्रहैर्न पुनरेति गतं चतुरं वयः ।

परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः ॥ रघु० ९।४७॥

६. चूताङ्कुरस्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज ।

मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य ॥ कुमार० ३।३२॥

७. तं देशमारोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने ।

काष्ठागतस्नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवव्रुः ॥ कुमार० ३।३५॥

८. मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः ।

श्रृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥ कुमार० ३।३६॥

९. ददौ रसात् पङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः ।

अर्धोपभुक्तेन बिसेन जायां सम्भावयामास रथाङ्गनामा ॥ कुमार० ३।३७॥

१०. गीतान्तरेषु श्रमवारिलेशैः किञ्चित्समुच्छ्वासितपत्रलेखम् ।

पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किम्पुरुषश्चुचुम्बे ॥ कु० ३।३८॥

११. पर्याप्तपुष्पस्तबकस्तनाभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः ।

लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखा भुजबन्धनानि ॥ कु० ३।३९॥

१२. उन्मत्तानां श्रवणसुभगैः कूजितैः कोकिलानाम्,

सानुक्रोशं मनसिजरुजः सह्यतां पृच्छतेव ।
अङ्गे चूतप्रसवसुरभिदक्षिणो मारुतो मे,
सान्द्रस्पर्शः करतल इव व्यापृतो माधवेन ॥ मालविका० ३।४॥

१३. रक्ताशोकरुचा विशेषितगुणो बिम्बाधरालक्तकः,

प्रत्याख्यातविशेषकं कुरबकं श्यामावदातारुणम् ।
आक्रान्ता तिलकक्रिया च तिलकैर्लग्नद्विरेफाञ्जनैः,
सावज्ञेव मुखप्रसाधनविधौ श्रीर्माधवी योषिताम् ॥ मालविका० ३।५॥

१४. प्रफुल्लचूताङ्कुरतीक्ष्णसायको द्विरेफमालाविलसद्धनुर्गुणः ।

मनांसि भेत्तुं सुरतप्रसङ्गिनां वसन्तयोद्धा समुपागतः प्रिये ॥ ऋतु० ६।१॥

१५. द्रुमाः सपुष्पाः सलिलं सपद्मं स्त्रियः सकामाः पवनः सुगन्धिः ।

सुखाः प्रदोषा दिवसाश्च रम्याः सर्वं प्रियं चारुतरं वसन्ते ॥ ऋतु० ६।२॥

१६. नेत्रेषु लोलो मदिरालसेषु गण्डेषु पाण्डुः कठिनः स्तनेषु ।

मध्येषु निम्नो जघनेषुः पीनः स्त्रीणामनङ्गो बहुधा स्थितोऽद्य ॥ ऋतु० ६।१२॥

१७. आदीप्तवह्निसदृशैर्मरुताऽवधूतैः सर्वत्र किंशुकवनैः कुसुमावनम्रैः ।

सद्यो वसन्तसमयेन समाचितेयं रक्तांशुका नववधूरिव भाति भूमिः ॥ ऋतु० ६।२१॥

१८. आलम्बिहेमरसनाः स्तनसक्तहाराः,

कन्दर्पदर्पशिथिलीकृतगात्रयष्ट्यः ।
मासे मधौ मधुरकोकिलभृङ्गनादैर्नार्यो,
हरन्ति हृदयं प्रसभं नराणाम् ॥ ऋतु० ६।२६॥

१९. रम्यः प्रदोषसमयः स्फुटचन्द्रभासः,

पुंस्कोकिलस्य विरुतं पवनः सुगन्धिः ।
मत्तालियूथविरुतं निशि शीधुपानं,
सर्वं रसायनमिदं कुसुमायुधस्य ॥ ऋतु० ६।३५॥

२०. आम्रीमञ्जुलमञ्जरीवरशरः सत्किंशुकं यद्धनु-

र्ज्यो यस्यालिकुलं कलङ्करहितं छत्रं सितांशुः सितम् ।
मत्तेभो मलयानिलः परभृता यद्वन्दिनो लोकजित्,
सोऽयं वो वितरीतरीतु वितनुर्भद्रं वसन्तान्वितः ॥ ऋतु० ६।३८॥