कालिदाससूक्तयः (मेघदूतम्)
अलकानगरी
सम्पाद्यताम्१. हस्ते लीलाकमलमलके बालकुन्दानुविद्धम्,
- नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः ।
- चूडापाशे नवकुरबकं चारु कर्णे शिरीषम्,
- सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ उत्तरमेघ २॥
२. यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा,
- हंसश्रेणिरचितरशना नित्यपद्मा नलिन्यः ।
- केकोत्कण्ठा भवनशिखिनो नित्यभास्वत्कलापा,
- नित्यज्योत्स्नाः प्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥ उ० मे० ३॥
३. आनन्दोत्थं नयनसलिलं यत्र नान्यैर्निमित्तै-
- र्नान्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात् ।
- नाप्यन्यस्मात् प्रणयकलहाद्विप्रयोगोपपत्ति-
- र्वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥ उ० मे० ४॥
४. यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि,
- ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः ।
- आसेवन्ते मधुरतिफलं कल्पवृक्षप्रसूतम्,
- त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥ उ० मे० ५॥
५. नीविबन्धोच्छ्वसितशिथिलं यत्र बिम्बाधराणाम्,
- क्षौमं रागाद् निभृतकरेष्वाक्षिपत्सु प्रियेषु ।
- अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान्,
- ह्रिमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ उ० मे० ७॥
६. यत्र स्त्रीणां प्रियतमभुजालिङ्गनोच्छ्वासितानाम्,
- अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः ।
- त्वत्संरोधापगमविशदैश् चन्द्रपादैर्निशीथे,
- व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ उ० मे० ९॥
७. गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः
- पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च ।
- मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश्च हारै-
- र्नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ उ० मे० ११॥
यक्षगृहम्
सम्पाद्यताम्१. तत्रागारं धनपतिगृहानुत्तरेणास्मदीयम्,
- दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन ।
- यस्योपान्ते कृतकतनयः कान्तयावर्द्धितो मे
- हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥ उ० मे० १५॥
२. वापी चास्मिन्मरकतशिलाबद्धसोपानमार्गा,
- हैमैश्च्छन्नाविकचकमलैः स्निग्धवैदूर्यनालैः ।
- यस्यास्तोये कृतवसतयो मानसं सन्निकृष्टं
- नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥ उ० मे० १६॥
३. तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः,
- क्रीडाशैलः कनककदली वेष्टनप्रेक्षणीयः ।
- मद्गोहिन्याः प्रिय इति सखे! चेतसा कातरेण,
- प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ उ० मे०१७॥
४. रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः,
- प्रत्यासन्नौ कुरबकवृतेर्माधवी मण्डपस्य ।
- एकः सख्यास्तव सह मया वामपादाभिलाषी,
- काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनाऽस्याः ॥ उ० मे० १८॥
५. तन्मध्ये च स्फटिकफलका काञ्चनीवासयष्टि-
- र्मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः ।
- तालौः शिञ्जावलयसुभगैर्नर्तितः कान्तया मे,
- या मध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥ उ० मे० १९॥
६. एभिः साधो! हृदयनिहितैर्लक्षणैर्लक्षयेथा,
- द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा ।
- क्षामच्छायं भवनमधुना मद्वियोगेन नूनम्,
- सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ उ० मे० २०॥
विरहिणी-यक्षिणी
सम्पाद्यताम्१. तां चावश्यं दिवसगणनातत्परामेकपत्नीम्,
- अव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।
- आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानाम्,
- सद्यःपाति प्रणयिहृदयं विप्रयोगे रुणद्धि ॥ पूर्व० मे० ९॥
२. तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी,
- मध्ये क्षामा चकितहरिणी प्रेक्षणा निम्ननाभिः ।
- श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्याम्,
- या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः ॥ उ० मे० २२॥
३. तां जानीथाः परिमितकथां जीवितं मे द्वितीयम्,
- दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।
- गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालाम्,
- जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥ उ० मे० २३॥
४. नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया,
- निःश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ।
- हस्तन्यस्तं मुखमसकलव्यक्तिलम्बालकत्वाद्,
- इन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति ॥ उ० मे० २४॥
५. आलोके ते निपतति पुरा सा बलिव्याकुला वा,
- मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ।
- पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थाम्,
- कच्चिद् भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ उ० मे० २५॥
६. उत्सङ्गे वा मलिनवसने सौम्य! निक्षिप्य वीणाम्,
- मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा ।
- तन्त्रीमार्द्रां नयनसलिलैः सारयित्वा कथञ्चिद्,
- भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥ उ० मे० २६॥
७. शेषन्मासान् विरहदिवसस्थापितस्यावधेर्वा,
- विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः ।
- मत्सङ्गं वा हृदयनिहितारम्भमास्वादयन्ती,
- प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥ उ० मे० २७॥
८. सव्यापारामहनि न तथा पीडयेन्मद्वियोगः,
- शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते ।
- मत्सन्देशैः सुखयितुमलं पश्य साध्वीं निशीथे,
- तामुन्निद्रामवनिशयनां सौधावातायनस्थः ॥ उ० मे० २८॥
९. आधिक्षामां विरहशयने सन्निषण्णैकपार्श्वाम्,
- प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः ।
- नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या,
- तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम् ॥ उ० मे० ३१॥
१०. पादानिन्दोरमृतशिशिराञ्जालमार्गप्रविष्टान्,
- पूर्वप्रीत्या गतमभिमुखं सन्निवृत्तं तथैव ।
- चक्षुः खेदात्सलिलगुरुभिः पक्ष्मभिश्छादयन्तीम्,
- साभ्रेऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम् ॥ उ० मे० ३२॥
११. निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीम्,
- शुद्धस्नानात्परुषमलकं नूनमागण्डलम्बम् ।
- मत्सम्भोगः कथमुपनयेत्स्वप्नजोऽपीति निद्रा-
- माकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥ उ० मे० ३३॥
१२. आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा,
- शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् ।
- स्पर्शक्लिष्टामयमितनखेनासकृत् सारयन्तीम्,
- गण्डाभोगात् कठिनविषमामेकवेणीं करेण ॥ उ० मे० ३४॥
१३. सा संन्यस्ताभरणमबला पेशलं धारयन्ती,
- शय्योत्सङ्गे निहितमसकृद्दुःखेन गात्रम् ।
- त्वामप्यस्रं नवजलमयं मोचयिष्यत्यवश्यम्,
- प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥ उ० मे० ३५॥
१४. जाने सख्यास्तव मयि मनः सम्भृतस्नेहमस्माद्,
- इत्थम्भूतां प्रथमविरहे तामहं तर्कयामि ।
- वाचालं मां न खलु सुभगम्मन्यभावः करोति,
- प्रत्यक्षं ते निखिलमचिराद् भ्रातुरुक्तं मया यत् ॥ उ० मे० ३६॥
१५. रुद्धापाङ्गप्रसरमलकैर् अञ्जनस्नेहशून्यम्,
- प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् ।
- त्वय्यासने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या,
- मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥
१६. वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयै-
- र्मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या ।
- सम्भोगान्ते मम समुचितो हस्तसंवाहनानां
- यास्यत्यूरुः सरसकदलीस्तम्भ गौरश्चलत्वम् ॥ उ० मे० ३८ ॥
१७. तस्मिन्काले जलद यदि सा लब्धनिद्रासुखा स्याद-
- न्यास्यैनां स्तनितविमुखो याममात्रं सहस्व ।
- माभूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथञ्चित्,
- सद्यः कण्ठच्युतभुजलताग्रन्थिगाढोपगूढम् ॥ उ० मे० ३९ ॥
यक्षसन्देशः
सम्पाद्यताम्१. भर्तुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाहम्,
- तत्सन्देशैर्हृदयनिहितैरागतं त्वत्समीपम् ।
- यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानाम्,
- मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥ उ० मे० ४१ ॥
२. इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा,
- त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य सम्भाव्य चैवम् ।
- श्रोष्यत्यस्मात्परमवहिता सौम्य सीमन्तिनीनाम्,
- कान्तोदन्तः सुहृदुपनतः सङ्गमात्किञ्चिदूनः ॥ उ० मे० ४२ ॥
३. तामायुष्मन्मम च वचनादात्मनश्चोपकर्तुम्,
- ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः ।
- अव्यापन्नः कुशलमबले! पृच्छति त्वां वियुक्तः,
- पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥ उ० मे० ४३ ॥
४. अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तम्,
- सास्रेणाश्रुद्रुतमविरतोत्कण्ठमुत्कण्ठितेन ।
- उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती,
- सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥ उ० मे० ४४ ॥
५. शब्दाख्येयं यदपि किल ते यः सखीनाम्,
- पुरस्तात्कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् ।
- सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृष्ट-
- स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥
६. श्यामास्वङ्गचकितहरिणीप्रेक्षणे दृष्टिपातम्,
- वक्त्रच्छायां शशिनि शिखनां बर्हभारेषु केशान् ।
- उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान्,
- हन्तैकस्मिन् क्वचिदपि न ते चण्डि सादृश्यमस्ति ॥ उ० मे० ४६ ॥
७. त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-
- मात्मानं ते चरणपतितं यावदिच्छामि कर्त्तुम् ।
- अस्रैस्तावन्मुहरुपचितैर्दृष्टिरालुप्यते मे क्रूर्-
- स्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥ उ० मे० ४७ ॥
८. मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो-
- र्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु ।
- पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां
- मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥ उ० मे० ४९ ॥
९. भित्त्वा सद्यः किसलयपुटान् देवदारुमाणाम्,
- ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः ।
- आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः,
- पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ उ० मे० ५० ॥
१०. सङ्क्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा,
- सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् ।
- इत्थं चेतश्चटुलनयने! दुर्लभप्रार्थनं मे
- गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ उ० मे० ५१ ॥
११. नन्वान्मानं बहु विगणयन्नात्मनैवावलम्बे,
- तत्कल्याणि! त्वमापि नितरां मा गमः कातरत्वम् ।
- कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा,
- नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ उ० मे० ५२ ॥
१२. शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ,
- शेषान् मासान् गमय चतुरो लोचने मिलयित्वा ।
- पश्चादावां विरहगुणितं तं तमाभिलाषम्,
- निर्वेष्यावः परिणतशरद्दन्द्रिकासु क्षपासु ॥ उ० मे० ५३ ॥