१. हवींषि मन्त्रपूतानि हुताश ! त्वयि जुह्वतः ।

तपस्विनस्तपः सिद्धिं यान्ति त्वं तपसां प्रभुः ॥ कुमार० १० । १९॥

२. निधत्से हुतमर्काय स पर्जन्योऽभिवर्षति ।

ततोऽन्नानि प्रजास्तेभ्यस्तेनासि जगतः पिता ॥ कुमार० १० । २० ॥

३. अन्तश्चरोऽसि भूतानां तानि त्वत्तो भवन्ति च ।

ततो जीवितभूतस्त्वं जगतः प्राणदोऽसि च ॥ कुमार० १० । २१ ॥

४. जगतः सकलस्यास्य त्वमेकोऽस्युपकारकृत् ।

कार्योपपादने तत्र त्वत्तोऽन्यः क?ः प्रगल्भते ॥ कुमार० १०।२२॥

५. अमीषां सुरसङ्घानां त्वमेकोऽर्थसमर्थने ।

विपत्तिरपि संश्लाघ्योपकारव्रतिनोऽनल ॥ कुमार० १०।२३॥

१. श्लिष्टा क्रिया कस्यचिदात्मसंस्था सङ्क्रान्तिरन्यस्य विशेषयुक्ता ।

यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयतव्य एव ॥ मालविका० १ । १६१॥

२. यदा पुनर्मन्दमेधा शिष्या उपदेशं

मलिनयन्ति तदाऽऽचार्यस्य न दोषः ॥ मालविका० १।१६-१७॥

३. विनेतुरद्रव्यपरिग्रहोऽपि बुद्धिलाघवं प्रकाशयति ॥ मालविका० १। १६-१७ ॥

४. लब्धास्पदोऽस्मीति विवादभीरोस्तितिक्षमाणस्य परेणा निन्दाम् ।

यस्यागमः केवलजीविकायै तं ज्ञानपण्यं वणिजं वदन्ति ॥ मालविका० १।१७॥

५. सुशिक्षितोऽपि सर्व उपदेशदर्शनेन निष्णातो भवति ॥ मालविका० १। १८-१९॥

६. प्रभवत्याचार्यः शिष्यजनस्य ॥ मालविका० १। १९-२०॥

७. प्रायः समानविद्याः परस्परयशः पुरोभागाः ॥ मालविका० १।२०॥

८. उपदेशं विदुः शुद्धं सन्तस्तमुपदेशिनः ।

श्यामायते न युष्मासु यः काञ्चनमिवाग्निषु ॥ मालविका० २।९॥

आदर्शपुरुषः

सम्पाद्यताम्

१. व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः ॥ रघु० १। १३ ॥

२. आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः ।

आगमैः सदृशारम्भ आरम्भसदृशोदयः ॥ रघु० १। १५॥

३. युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणध्दकन्धरः ।

वपुः प्रकर्षादजयद् गुरुं रघुस्तथापि नीचैर्विनयाददृश्यत ॥ रघु० ३। ३४॥

४. पथः श्रुतेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् ॥ रघु० ३ । ४६॥

५. अवन्तिनाथोऽयमुदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः ।

आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥ रघु० ६। ३२॥

६. प्रसन्नमुखरागं तं स्मितपूर्वाभिभाषिणम् ।

मूर्तिमन्तममन्यन्त विश्वासमनुजीविनः ॥ रघु० १७।३१

आशीर्वादः

सम्पाद्यताम्

१. ययातेरिव शर्मिष्ठा भर्तृर्बहुमता भव ।

सुतं त्वमपि सम्राजं सेव पुरुमवाप्नुहि ॥ शाकुन्तल ४। ७॥

२. अमीं वेदिं परितः क्लृप्तधिष्णयाः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः ।

अपघ्नन्तो दुरितं हव्यगन्धैर्वैतानास्त्वां वह्नयः पावयन्तु ॥ शाकुन्तल ४। ८॥

३. रम्यान्तरः कमलिनीहरितैः सरोभि-

श्छायाद्रुमैर्नियमितार्कमयूखतापः ।
भूयात्कुशेशयरजो मृदुरेणुरस्याः,
शान्तानुकूलपवनश्च शिवश्च पन्थाः ॥ शाकुन्तल ४। ११॥

१. अथ स ललितयोषिद् भ्रूलताचारुश्रृङ्गं,

रतिवलयपदाङ्के चापमासज्य कण्ठे ।
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः,
शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥ कु० २। ६४॥

२. तव प्रसादात् कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा ।

कुर्यां हरस्यापि पिनाकपाणेर्धैर्यच्युतिं के मम धन्विनोऽन्ये ॥ कुमार० ३। १० ॥

३. त्वदधीनं खलु देहिनां सुखम् ॥ कुमार० ४। १०॥

४. तव कुसुमशरत्वं शीतरश्मित्वमिन्दो –

र्द्वयमिदमयथार्थं दृश्यते मद्विधेषु ।
विसृजति हिमगर्भैरग्निमिन्दुर्मयूखै-
स्त्वमपि कुसुमबाणान्वज्रसारी करोषि ॥ शा० ३।३॥

५. चारुणा स्फुरितेनायमपरिक्षतकोमलः ।

पिपासतो ममानुज्ञां ददातीव प्रियाधरः ॥ शाकुन्तल ३। ३६॥

६. इदमप्युपकृतिपक्षे सुरभि मुखं ते यदाघ्रातम् ।

ननु कमलस्य मधुकरः सन्तुष्यति गन्धमात्रेणा ॥ शा० ३। ३७॥

१. अत्यारुढो हि नारीणामकालज्ञो मनोभवः ॥ रघुवंश १२।३३॥

२. मामक्षमं मण्डनकालहानेर्वेत्तीव बिम्बाधरबद्धतृष्णम् ॥ रघुवंशा १३ । १६॥

३. विघ्नितसमागमसुखो मनसिशयः शतगुणी भवति ॥ विक्रम० ३। ८॥

४. अन्यसङ्क्रान्तप्रेमाणो नागरिका भार्यामधिकं दक्षिणा भवन्ति ॥ विक्रम० ३। १३-१४ ॥

५. अङ्गमनङ्गक्लिष्टं सुखयेदन्या न मे करस्पर्शात् ।

नोच्छ्वसिति तपनकिरणैश्चन्द्रस्यैवांशुभिः कुमुदम् ॥ विक्रम० ३।१६॥

६. पादास्त एव शशिनः सुखयन्ति गात्रम्,

बाणास्त एव मदनस्य मनोनुकूलः ।
संरम्भरुक्षमिव सुन्दरि ! यद्यदासीत् ,
त्वत्सङ्गमेन मम तत्तदिवानुनीतम् ॥ विक्रम० ३।२० ॥

७. दुरारुढः खलु प्रणयाऽसहनः ॥ विक्रम० ४। २ -३ ॥

८. क्व रुजा हृदयप्रमाथिनी क्व च ते विश्वसनीयमायुधम् ।

मृदु तीक्ष्णतरं यदुच्यते तदिदं मन्मथ दृश्यते त्वयि ॥ मालविका० ३।२॥

९. कामार्त्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ पूर्वमेघ ५ ॥

१०. स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ पूर्वमेघ ३० ॥

११. ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः ॥ पूर्वमेघ ४५॥

१२. स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते

त्वभोगादिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ उ० मे० ५५॥

१३. सर्वं तत्किल मत्परायणामहो कामी स्वतां पश्यति ॥ शाकुन्तल २।२॥

१. शम्भोरम्भोमयी मूर्तिः ॥ कुमार० १० ।२६॥

२. सा निः शेषक्लेशनाशिनी ॥ कुमार० १०।२८॥

३. स्वर्गरोहणनिः श्रेणिर्मोक्षमार्गाधिदेवता ।

उदारदुरितोद्गारहारिणी दुर्गतारिणी ॥ कुमार० १०।२९

४. महेश्वरजटाजुटवासिनी पापनाशिनी ।

सगरान्वयनिर्वाणकारिणी धर्मधारिणी ॥ कुमार० १० । ३०॥

५. विष्णुपादोदकोभ्दूता ब्रह्मलोकादुपागता ।

त्रिभिः स्त्रोतोभिरश्रान्तं पुनाना भुवनत्रयम् ॥ कुमार० १० ।३१॥

६. गंगावारिणि कल्याणकारिणि श्रमहारिणि ।

स मग्नो निवृत्तिं प्राप पुण्यभारिणी तारिणि ॥ कुमार० १० ।३६॥

७. ब्रह्मध्यानपरैर्योगपरैर्ब्रह्मासनस्थितैः

योगनिद्रागतैर्योगपट्टबन्धैरुपाश्रिताम् ॥ कुमार० १०। ४६॥

८. पादाङ्गुष्ठाग्रभूमिस्यैः सूर्यसम्बद्धदृष्टिभिः ।

ब्रह्मर्षिभिः परं ब्रह्म गृणभ्दिरुपसेविताम् ॥ कुमार० १०।४७॥

९. अथ दिव्यां नदीं देवीमभ्यनन्दन्विलोक्य ताः ।

कं नाभिनन्दयत्येषा दृष्टा पीयूषवाहिनी ॥ कुमार० १०। ४८॥

१०. चन्द्रचूडामणिर्देवो यामुद्ववहति मूर्धनि ।

यस्या विलोकनं पुण्यं श्रद्दधुस्ता मुदा हृदि ॥ कुमार० १०। ४९॥

गृहरथाश्रमः

सम्पाद्यताम्

१. कालो ह्ययं सङ्क्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते ॥ रघु० ५ । १०॥

२. अशोच्या हि पितुः कन्या सभ्दर्तृप्रतिपादिता ॥ कुमार० ६। ७९॥

३. प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः ॥ कुमार० ६। ८५

४. स्त्रीणां प्रियालोकफलो हि वेशः ॥ कुमार० ७।२२॥

५. भर्तृवल्लभतया हि मानसीं मातुरस्यति शुचं वधूजनः ॥ कुमार० ८। १२॥

६. सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृमतीं विशङ्कते ।

अतः समीपे परिणेतुरिष्यते प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ॥ शा० ५।१७॥

जितेन्द्रियः

सम्पाद्यताम्

१. अमुं सहासप्रहितेक्षणानि व्याजार्धसन्दर्शितमेखलानि ।

नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गना विभ्रमचेष्टितानि ॥ रघु० १३।४२॥

२. पित्रा विसृष्टां मदपेक्षया यः श्रियं युवाऽप्य~घ्कगतामभोक्ता ।

इयन्ति वर्षाणि तया सहोग्रमभ्यस्यतीव व्रतमासिधारम् ॥ रघुं १३।६७॥

३. आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥ कुमार० ३। ४० ॥

४. भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः ॥ कुमार० ५। ३९॥

५. वशिनां हि परपरिगहसंश्लेषपराङ्मुखी वृत्तिः ॥ शाकुन्तल ५।२८॥

१. वनान्तरादुपावृत्तैः समित्कुशफलाहरैः ।

पूर्यमाणमदृश्याग्निप्रत्युद्यातैस्तपस्विभिः ॥ रघु० १। ४९॥

२. आकीर्णमृषिपत्नीनामुटजद्वाररोधिभिः ।

अपत्यैरिव नीवारभागधेयोचितैर्मृगैः ॥ रघु० १।५०॥

३. सेकान्ते मुनिकन्याभिस्तत्क्षणोञ्झितवृक्षकम् ।

विश्वासाय विहङ्गानामालवालाम्बुपायिनाम् ॥ रघु० १। ५१॥

४. आतपात्ययसङ्क्षिप्तनीवारासु निषादिभिः ।

मृगैर्वर्तितरोमन्थम् उटजाङ्गनभूमिषु ॥ रघुं १। ५२॥

५. अभ्युत्थिताग्निपिशुनैरतिथीनामाश्रमोन्मुखान् ।

पुनानं पवनोधूतैर्धूमैर् आहुतिगन्धिभिः ॥ रघु० १। ५३॥

६. सा दष्टनीवारबलीनि हिंस्त्रैः सम्बध्दवैखानसकन्यकानि ।

इयेष भूयः कुशावन्ति गन्तुं भागीरथीतीरतपोवनानि ॥ रघु० १४। २८॥

७. तपस्विसंसर्गविनीतसत्त्वे तपोवने वीतभया वसास्मिन् ॥ रघु० १४। ७५॥

८. अशून्यतीरां मुनिसन्निवेशैस्तमोपहन्त्रीं तमसां वगाह्य ।

तत्सैकतोत्सङ्गबलिक्रियाभिः सम्पत्स्यते ते मनसः प्रसादः ॥ रघु० १४।७६॥

९. पयोघटैराश्रमबालवृक्षान् संवर्धयन्ती स्वबलानुरुपैः ।

असंशयं प्राक्तनयोपपत्तेः स्तनन्धयप्रीतिमवाप्स्यसि त्वम् ॥ रघु० १४। ७८॥

१०. सायं मृगाध्यासितवेदिपार्श्वं स्वमाश्रमं शान्तमृगं निनाय ॥ रघु० १४। ७९॥

११. ता इङ्गुदीस्नेहकृतप्रदीपमास्तीर्णमेध्याजिनतल्पमन्तः ।

तस्यै सपर्यानुपदं दिनान्ते निवासहेतोरुटजं वितेरुः ॥ रघु० १४। ८१॥

१२. आविशभ्दिरुटजाङ्गणं मृगैर्मूलसेकसरसैश्च वृक्षकैः ।

आश्रमाः प्रविशदग्र्ये धेनवो बिभ्रति श्रियमुदीरिताग्नयः ॥ कुमार० ८। ३८॥

१३. अरण्यबीजाञ्जलिदानलालिता –

स्थथा च तस्यां हरिणा विशश्वसुः ।
यथा तदीयैर्नयनैः कुतूहलात्
पुरः सखीनाममिमीत लोचने ॥ कुमार० ५। १५॥

१४. अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु ।

य उत्पलाक्षि ! प्रचलैर्विलोचनैस्तवाक्षिसादृश्यमिव प्रयुञ्जते ॥ कुमार० ५ । ३५॥

१५. नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरुणामधः,

प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्ते एवोपलाः ।
विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा-
स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ शाकुन्तल १। १४॥

१६. कुल्याम्भोभिः प्रकृतिचपलैः शाखिनो धौतमूलाः,

भिन्नो रागः किसलयरुचामाज्यधूमोद्गमेन ।
एते चार्वागुपवनभुवि च्छिन्नदर्भाङ्कुरायाम् ,
नष्टाशङ्काः हरिणशिशवो मन्दमन्दं चरन्ति ॥ शाकुन्तल १। १५॥

१७. वल्मीकार्धनिमग्नमूर्तिरुरसा सन्दष्टसर्पत्वचा,

कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसम्पीडितः ।
अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलम्
यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥ शा० ७। ११॥

१८. प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने,

तोये काञ्चनपद्मरेणुकपिशे धर्मभिषेकक्रिया ।
ध्यानं रत्नशिलातलेषु विबुधस्त्रीसन्निधौ संयमौ,
यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥ शा० ७। १२॥

१. त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥ रघु० १। २८॥

२. प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ॥ रघु० १। ७९॥

३. हीनान्यनुपकर्तृणि प्रवृद्धानि विकुर्वते ॥ रघु० १७। ५८॥

४. शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः ॥ कुमार० २। ४०॥

५. याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ पूर्वमेघ ६॥

६. न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय

प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ पू० मे० १७॥

धर्मपत्नी

सम्पाद्यताम्

१. क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलकारणम् ॥ कुमार० ६। १३॥

२. अवधूतप्रणिपाताः पश्चात्सन्तप्यमानमनसो हि ।

विविधैरनुतप्यन्ते दयितानुनयैर्मनस्विन्यः ॥ विक्रम० ३। ५॥

३. प्रभुता रमणॆषु योषितां न हि भावस्खलितान्यपेक्षते ॥ विक्रम० ४। २६॥

४. प्रभवन्त्योऽपि हि भर्तृषु कारणकोपाः कुटुम्बिन्यः ॥ मालविका० १ ।१८॥

पितृभक्तिः

सम्पाद्यताम्

१. शासनं पशुपतेः स कुमारः स्वीचकार शिरसाऽवनतेन ।

सर्वथैव पितृभक्तिरतानामेष एव परमः खलु धर्मः ॥ कुमार० १२। ५८॥

प्रकृतिरक्षा

सम्पाद्यताम्

१. आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम् ।

कच्चिन्न वाय्वादिरुपप्लवो वः श्रमच्छिदामाश्रमपादपानाम् ॥ रघु० ५। ६॥

२. क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु ।

तदङ्कशय्याच्युतनाभिनाला कच्चित् मृगीणामनघा प्रसूतिः ॥ रघु० ५।७॥

३. निर्वर्त्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलयः पितृणाम् ।

तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चित् ॥ रघु० ५। ८

४. नीवारपाकादिकङ्गरीयैरामृश्यते जानपदैर्न किच्चित् ।

कालोपपन्नातिथिकल्प्यभागं वन्यं शरीरस्थितिसाधनं वः ॥ रघु० ५। ९॥

५. त्वं रक्षसा भीरु ! यतोऽपनीता तं मार्गमेताः कृपया लता मे ।

अदर्शयन्वक्तुमशक्नुवन्त्यः शाखाभिरावर्जितपल्लवाभिः ॥ रघु० १३। २४॥

६. मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम् ।

व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥ रघु० १३॥ २५॥

७. एषा त्वया पेशलमध्ययाऽपि घटाम्बुसंवर्धितबालचूता ।

आनन्दयत्युन्मुखकृष्णासारा दृष्टा चिरात्पञ्चवटी मनो मे ॥ रघु० १३। ३४॥

प्रजापालनम्

सम्पाद्यताम्

१. भानुः सकृद्युक्ततुरङ्ग एव रात्रिन्दिवं गन्धवहः प्रवाति ।

शेषः सदैवाऽऽहितभूमिभारः षष्ठांशवृत्तेरपि धर्म एषः ॥ शाकुन्तल ५। ४॥

२. स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः,

प्रतिदिनमथवा ते सृष्टिरेवंविधैव ।
अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णम्,
शमयति परितापं छायया संश्रितानाम् ॥ शा० ५। ६॥

३. नियमयसि विमार्गप्रस्थितानात्तदण्डः ,

प्रशमयसि विवादं कल्पसे रक्षणाय ।
अतनुषु विभवेषु ज्ञातयः सन्तु नाम,
त्वयि तु परिसमाप्तं बन्धुकृत्यं जनानाम् ॥ शा० ५। ७॥

१. आचार इत्यधिकृतेन मया गृहीता,

या वेत्रयष्टिरवरोधगृहेषु राज्ञः ।
काले गते बहुतिथे मम सैव जाता,
प्रस्थानविक्लवगतेरवलम्बनाय ॥ शा० ५। ३॥

२. क्षणात्प्रबोधमायाति लङ्घ्यते तमसा पुनः ।

निर्वास्यतः प्रदीपस्य शिखेव जरतो मतिः ॥ शाकुन्तल ५। २॥

१. इयं ते जननी प्राप्ता त्वदालोकनतत्परा ।

स्नेहप्रस्रवनिर्भिन्नमुद्वहन्ती स्तनांशुकम् ॥ विक्रम० ५। १२

२. सुतविक्रमे सति न नन्दति का खलु वीरसूः ॥ कुमार० १२। ५९॥

१. सम्बन्धमाभाषणपूर्वमाहुः ॥ रघुवंश २।५८॥

२. दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ॥ कुमार ४। २८॥

३. प्रयुक्तसत्कारविशॆषमात्मना न मां परं सम्प्रतिपत्तुमर्हसि ।

यतः सतां सन्नतगात्रि ! सङ्गतं मनीषिभिः साप्तपदीनमुच्यते ॥ कुमार० ५। ३९ ॥

१. असम्भृतं पण्डानमङ्गयष्टेरनासवाख्यं करणं मदस्य ।

कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साऽथ वयः प्रपेदे ॥ कुमार० १ । ३१॥

२. उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भन्नमिवारविन्दम् ।

बभूव तस्याश्चतुरस्रशोभि वपुर्विभक्तं नवयौवनेन ॥ कुमार० १ । ३२॥

३. अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् ।

मध्ये यथाश्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् ॥ कुमार० १ ।४०॥

४. सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन ।

सा निर्मिता विश्वसृजा प्रयत्नादेकस्थसौन्दर्यदिदृक्षयेव ॥ कु० १। ४९॥

५. अप्यौत्सुक्ये महति दयिता प्रार्थनासु प्रतीपाः,

काङ्क्षन्त्योऽपि व्यतिकरसुखं कातराः स्वाङ्गदाने ।
आबाध्यन्ते न खलु मदनेनैव लब्धान्तरत्वा-
दाबाधन्ते मनसिजमपि क्षिप्तकालाः कुमार्य्यः ॥ शाकुन्तल ३।२७॥

६. अतः परीक्ष्य कर्तव्यं विशेषात्सङ्गतं रहः ।

अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् ॥ शाकुन्तल ५।२४॥

१. आदानं हि विसर्गाय सतां वारिमुचामिव ॥ रघु० ४। ८६॥

२. प्रतिप्रियं चेद्भवतो न कुर्यां वृथा हि मे स्यात्स्वपदोपलब्धिः ॥ रघु० ५। ५६॥

३. अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः ॥ रघु० ९। ७४॥

४. अकामोपनतेनेव सार्धार्हृदयमेनसा ॥ रघु० १०। ३९॥

५. अत्यारुढं रिपोः सोढं चन्दनेनेव भोगिना ॥ रघु० १०। ४३

६. सद्य एव सुकृतां हि पच्यते कल्पवृक्षफलधर्मिकाङ्क्षतम् ॥ रघु० ११। ५०॥

७. त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययम् ॥ रघु० १५।३॥

८. धर्मसंरक्षणार्थैव प्रवृत्तिर्भुवि शार्ङ्गिणः ॥ रघु० १५।४ ॥

९. सतुल्यपुष्पाभरणो हि धीरः ॥ रघु० १६। ७४॥

१०. प्रह्वेष्वनिर्बन्धरुषो हि सन्तः ॥ रघु० १६। ८०॥

११. क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसां सतीव ॥ कुमार० १। १२॥

१२. अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे ॥ कुमार० १। ५२॥

१३. विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ॥ कुमार० १। ५९॥

१४. आत्मेश्वराणां न हि जातु विध्नाः समाधिभेदप्रभवो भवन्ति ॥ कुमार० ३।४० ॥

१५. न हीश्वरव्याहृतयः कदाचित् पुष्णन्ति लोको विपरीतमर्थम् ॥ कुमार० ३। ६३॥

१६. अशनेरमृतस्य चोभयोर्वशिनश्चाम्बुधराश्च योनयः ॥ कुमार० ४। ४३॥

१७. क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् ॥ कुमार० ५।५॥

१८. न धर्मवृद्धेषु वयः समीक्ष्यते ॥ कुमार० ५।१६॥

१९. भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वति गौरवाः क्रियाः ॥ कु० ५। ३१॥

२०. अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम् ॥ कुमार० ५। ७५॥

२१. न केवलं यो महतोऽपभाषते श्रृणोति तस्मादपि यः स पापभाक् ॥ कुमार० ५। ८३॥

२२. स्त्रीपुमानित्यनास्थैषा वृत्तं हि महितं सताम् ॥ कुमार० ६। १२॥

२३. प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः ॥ कुमार० ६। २०॥

२४. विक्रियायै न कल्पन्त्ए सम्बन्धाः सदनुष्ठिताः ॥ कुमार० ६। २९॥

२५. यदध्यासितमर्हभ्दिस्तद्धि तीर्थं प्रचक्षते ॥ कुमार० ६। ५६॥

२६. विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया । कुमार० ८।६५॥

२७. विपत्तिरपि संश्लाघ्योपकारव्रतिनोऽनल ॥ कुमार० १०। २३

२८. न कस्य वीर्याय वरस्य सङ्गतिः ॥ कुमार० १५।५१॥

२९. अतिस्नेहः खलु कार्यदर्शी ॥ विक्रम० २।८-९॥

३०. स्वार्थात्सतां गुरुतरा प्रणयिक्रियैव ॥ विक्रम० ४। ३१॥

३१. न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संशयाय

प्राप्ते मित्रे भवति विमुखः किंपुनर्यस्तयोच्चैः ॥ पूर्वमेघ १७॥

३२. सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु ॥ पूर्वमेघ १९॥

३३. मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ पूर्वमेघ ४२॥

३४. आपन्नार्तिप्रशमनफलाः सम्पदो ह्युत्तमानाम् ॥ पूर्वमेघ ५७॥

३५. प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ उत्तरमेघ ५७॥

३६. केषां न स्यादभिमतफला प्रार्थना ह्युत्तमेषु ॥ उत्तरमेघ ६१॥

३७. भवन्ति नम्रास्तरवः फलोद्गमैर्नवाम्बुभिर्दूरविलम्बिनो घनाः ।

अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥

३८. प्रसादसौम्यानि सतां सुहृज्जने पतन्ति चक्षूंषि न दारुणाः शराः ॥ शा० ६। २९॥

१. लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् ।

सन्ततिः शुद्धवंश्या हि परत्रेह च शर्मणे ॥ रघु० १। ६९॥

२. दिशः प्रसेदुः मरुतः ववुः सुखाः प्रदक्षिणार्दिर्हविरग्निराददे ।

बभूव सर्वं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम् ॥ रघु० ३। १४॥

३. तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि ।

उपान्त सम्मीलितलोचनो नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ ॥ रघु० ३। २६॥

४. न चोपलेभे पूर्वेषामृणनिर्मोक्षसाधनम् ।

सुताभिधानं स ज्योतिः सद्यः शोकतमोऽपहम् ॥ रघु० १० । २॥

५. वाष्पायते निपतिता मम दृष्टिरस्मिन्,

वात्सल्यबन्धि हृदयं मनसः प्रसादः ।
सञ्जातवेपथुभिर् उज्झितधैर्यवृत्ति –
रिच्छामि चैनमदयं परिरब्धुमङ्गैः ॥ विक्रम० ५।९॥

६. यदि हार्दमिदं श्रुत्वा पिता ममायं सुतोऽहमस्येति ।

उत्सङ्गवर्धितानां गुरुषु भवेत् कीदृशः स्नेहः ॥ विक्रम० ५। १०॥

७. सर्वाङ्गीणः स्पर्शः सुतस्य किल तेन मामुपगतेन ।

आह्लादयस्व तावच्चन्द्रकरश्चन्द्रकान्तमिव ॥ विक्रम० ५।११॥

८. प्रमोदवाष्पाकुललोचना सा न तं ददर्श क्षणमग्रतोऽपि ।

परिस्पृशन्ती करकुड्मलेन सुखान्तरं प्राप किमप्यपूर्वम् ॥ कुमार० ११। १८॥

९. सुविस्मयानन्दविकस्वरायाः शिशुर्गलद्वाष्पतरङ्गितायाः ।

विवृद्धवात्सल्यरसोत्तराया देव्या दृशेर्गोचरतां जगाम ॥ कुमार० ११। १९॥

१०. तमीक्षमाणा क्षणमीक्षणानां सहस्रमाप्तुं विनिमेषमैच्छत् ।

सा नन्दनालोकनमङ्गलेषु क्षणं क्षणं तृप्यति कस्य चेतः ॥ कुमार० ११।२०॥

११. निसर्गवात्सल्यरसौघसिक्ता सान्द्रप्रमोदामृतपूरपूर्णा ।

तमेकपुत्रं जगदेकमाताऽभ्युत्सङ्गिनं प्रस्रविणी बभूव ॥ कुमार० ११। २३॥

१२. हैमी फलं हेमगिरेर्लतेव विकस्वरं नाकनदीव पद्मम् ।

पूर्वेव दिङ्नूतनमिन्दुमाभात्तं पार्वती नन्दनमादधाना ॥ कुमार० ११। २६॥

१. पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे ! विवस्वता ।

लब्धया प्रतिमया सरोऽम्भसां तापनीयमिव सेतुबन्धनम् ॥ कुमार० ८।३४॥

२. खं प्रसुप्तमिव संस्थिते रवौ तेजसो महत ईदृशी गतिः ।

तत्प्रकाशयति यावदुद्गतं मीलनाय खलु तावतश्च्युतम् ।। कुमार० ८। ४३॥

३. निर्मितेषु पितृषु स्वयम्भुवा या तनुः सुतनु पूर्वमुज्झिता ।

सेयमस्तमुदयं च सेवते तेन मानिनि ! ममात्र गौरवम् ॥ कुमार० ८।५२॥

४. नोर्ध्वमीक्षणगतिर्न चाप्यधो नाभितो न पुरतो न पृष्ठतः ।

लोक एष तिमिरौघवेष्टितो गर्भवास इव वर्तते निशि ॥ कुमार० ८। ५६॥

१. व्याहृता प्रतिवचो न सन्दधे गन्तुमैच्छदवलम्बितांशुका ।

सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥ कुमार० ८। २॥

२. नाभिदेशनिहितः सकम्पया शङ्करस्य रुरुधे तया करः ।

तद् दुकूलमथ चाभवत् स्वयं दूरमुच्छवसितनीविबन्धनम् ॥ कुमार० ८। ४॥

३. चुम्बनेष्वधरदानवर्जितं खिन्नहस्तसदयोपगूहनम् ।

क्लिष्टमन्मथमपि प्रियं प्रभोर्दुर्लभप्रतिकृतं वधूरतम् ॥ कुमार० ८। ८॥

४. यन्मुखग्रहणामक्षताधरं दानमव्रणपदं नखस्य यत् ।

यद्रतं च सदयं प्रियस्य तत्पार्वती विषहते स्म नेतरत् ॥ कुमार० ८।९॥

५. ज्ञातमन्मथरसा शनैः शनैः सा मुमोच रतिदुःखशीलताम् ॥ कुमार० ८। १३॥

६. सस्वजे प्रियमुरोनिपीडनं प्रार्थितं मुखमनेन नाहरत् ।

मेखलाप्रणयलोलतां गतं हस्तमस्य शिथिलं रुरोध सा ॥ कुमार० ८। १४॥

७. दष्टमुक्तमधरोष्ठमम्बिका वेदनाविधुरहस्तपल्लवा ।

शीतलेन निरवापयत् क्षणं मौलिचन्द्रशकलेन शूलिनः ॥ कुमार० ८।

८. क्लिष्टकेशमवलुप्तचन्दनं व्यत्ययार्पितनखं समत्सरम् ।

तस्य तच्छिदुरमेखलागुणं पार्वतीरतमभून्न पृप्तये ॥ कुमार० ८। ८३॥

९. स प्रजागरकषायलोचनं गाढदन्तपरिताडिताधरम् ।

आकुलालकमरंस्त रागवान्प्रेक्ष्य भिन्नतिलकं प्रियामुखम् ॥ कुमार० ८।८८॥

१०. स प्रियामुखरसं दिवानिशं हर्षवृद्धिजननं सिषेविषुः ।

दर्शनप्रणयिनामदृश्यतामाजगाम विजयानिवेदनात् ॥ कुमार० ८। ९०॥

११. समदिवसनिशीयं सङ्गतिस्तत्र शम्भोः,

शतमगमदृतूनां साग्रमेका निशेव ।
न तु सुरतसुखेभ्यश्चिन्नतृष्णो बभूव,
ज्वलन इव समुद्रान्तर्गतस्तज्जलौघैः ॥ कुमार० ८। ९१॥

१२. स नाम सम्भोगो यस्यादृशेषु प्रदेशेषु ॥ विक्रम० ४।२-३॥

१३. कात्सन्र्येन निर्वर्णयितुं च रुपमिच्छन्ति तत्पूर्वसमागमानाम् ।

न च प्रियेष्वायतलोचनानां समग्रवृत्तीनि विलोचनानि ॥ मालविका० ४।८॥

१४. हस्तं कम्पयते रुणध्दि रसनाव्यापारलोलाङ्गुलीः ,

स्वौहस्तौ नयति स्तनावरणतामालिङ्ग्यमाना बलात् ।
पातुं पक्ष्मलनेत्रमुन्नमयतः साची करोत्याननम्,
व्याजेनाप्यभिलाषपूरणसुखं निर्वर्तयत्येव मे ॥ मालविका० ४। १५॥

१५. कान्तो दन्तः सुहृदुपनतः सङ्गमात्किञ्चिदूनः ॥ उत्तरमेघ ४२॥

१६. मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् ।

मुखमंसविवर्तिपक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥ शा० ३। २३॥

१. गुरोर्यियक्षोः कपिलेन मेध्ये रसातलं संक्रमिते तुरङ्गे ।

तदर्थमुर्वीमवदारयभ्दिः पूर्वैः किलायं परिवर्धितो नः ॥ रघु० १३। ३॥

२. गर्भं दधत्यर्कमरीचयोऽस्माद् विवृद्धिमत्राश्नुवते वसूनि ।

अबिन्धनं वह्निमसौ बिभर्ति प्रह्लादनं ज्योतिरजन्यनेन ॥ रघु० १३।४॥

३. तां तामवस्थां प्रतिपद्यमानं स्थितं दश व्याप्य दिशो महिम्ना ।

विष्णोरिवास्यानवधारणीयमीदृक्तया रुपमियत्तया वा ॥ रघु० १३। ५॥

४. अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशेते ॥ रघु० १३। ६॥

१. स्थातुं नियोक्तुर्न हि शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन ॥ रघु० २। ५६॥

२. प्रयोजनापेक्षितया प्रभूणां प्रायश्चलं गौरवमाश्रितेषु ॥ कुमार० ३। १।

३. अनुग्रहं संस्मरणप्रवृत्तमिच्छामि संवर्धितमाज्ञया ते ॥ कुमार० ३।३॥

४. विनियोगप्रसादा हि किङ्कराः प्रभविष्णुषु ॥ कुमार० ६।६२॥

५. कालप्रयुक्ता खलु कार्यविभ्दिर्विज्ञापना भर्तृषु सिध्दिमेति ॥ कुमार० ७। ९३॥

६. परितोषयन्ति गीर्भिगिरीशा रुचिराभिरीशम् ॥ कुमार० ९। १२॥

७. प्रभुप्रसादो हि मुदे न कस्य ॥ कुमार० १२।३२॥

८. स्त्रीषु कष्टोऽधिकारः ॥ विक्रम० ३।१॥

सुभाषितम्

सम्पाद्यताम्

१. आद्यः प्रणवश्छन्दसामिव ॥ रघु० १।११॥

२. भक्तोपपन्नेषु हि तद्विधानां प्रसादचिह्ननि पुरः फलानि ॥ रघु० २।२२॥

३. न पादपोन्मूलनशक्तिरंहः शिलोच्चये मूर्च्छति मारुतस्य ॥ रघु० २।३४॥

४. शस्त्रेणा रक्ष्यं यदशक्यरक्ष्यं न तद्यशः शस्त्रभृतां क्षिणोति ॥ रघु० २। ४०॥

५. महीतलस्पर्शनमात्रभिन्नमृद्धं हि राज्यं पदमैन्द्रमाहुः ॥ रघु० २। ५०॥

६. क्रिया हि वस्तूपहिता प्रसीदति ॥ रघु० ३। २९॥

७. यशस्तु रक्ष्यं परतो यशोधनैः ॥ रघु० ३। ४८॥

८. पदं हि सर्वत्र गुणैर्निधीयते ॥ रघु० ३। ६२॥

९. प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् ॥ रघु० ४। ६४॥

१०. सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिम्ना ॥ रघु० ५। १३॥

११. निर्गलिताम्बुगर्भं शरद्धनं नार्दति चातकोऽपि ॥ रघु० ५। १७॥

१२. उष्णत्वमगन्यातपसम्प्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्जलस्य ॥ रघु० ५। ५४॥

१३. नक्षत्रताराग्रहसङ्कुलाऽपि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥ रघु० ६। २२॥

१४. निसर्गभिन्नास्पदमेकसंस्थमस्मिन्द्वयं श्रीश्च सरस्वती च ॥ रघु० ६। २९॥

१५. भिन्नरुचिर्हि लोकः ॥ रघु० ६।३०॥

१६. कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो बीजप्ररोहजननीं ज्वलनः करोति ॥ रघु० ९। ८०॥

१७. अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धोर्हि लक्षणम् ॥ रघु० १० । ६॥

१८. स्वयमेव हि वाताऽग्नेः सारथ्यं प्रतिपद्यते ॥ रघु० १०। ४० ॥

१९. सम्यगाराधिता विद्या प्रबोधविनयाविव ॥ रघु० १० । ७१॥

२०. तेजसां हि न वयः समीक्ष्यते ॥ रघु० ११। १॥

२१. पावकस्य महिमा स गण्यते कक्षवज्ज्वलति सागरोऽपि यः ॥ रघु० ११ । ७५॥

२२. खातमूलमनिलो नदीरयैः पातयत्यपि मृदुस्तटद्रुमम् ॥ रघु० ११। ७६॥

२३. केवलोऽपि सुभगो नवाम्बुदः किं पुनस्तिदशचापलाञ्छितः ॥ रघु० ११।८०॥

२४. निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये ॥ रघु० ११। ८९॥

२५. तस्याभवत्क्षणशुचः परितोषलाभः कक्षाग्निलङ्घिततरोरिव वृष्टिपातः ॥ रघु० ११। ९२॥

२६. काले खलु समारब्धाः फलं बध्नन्ति नीतयः ॥ रघु० १२। ६९॥

२७. नृपा इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यममाश्रयन्ते ॥ रघु० १३। ७॥

२८. स्तुवन्ति पौराश्चरितं त्वदीयम् ॥ रघु० १४। ३२॥

२९. यशोधनानां हि यशो गरीयः ॥ रघु० १४। ३५॥

३०. लोकापवादो बलवान्मतो मे ॥ रघु) १४। ४०॥

३१. अमर्षणः शोणितकाङ्क्षया किं पदा स्पृशन्तं दशति द्विजिह्वः ॥ रघु) १४। ४१॥

३२. आज्ञा गुरुणां ह्य्विचारणीया ॥ रघु० १४।४१॥

३३. जयो रन्ध्रप्रहारिणाम् ॥ रघु० १५। १७॥

३४. प्रागेव मुक्ता नयनाभिरामाः प्राप्येन्द्रनीलं किमुतोन्मयूखम् ॥ रघु० १६।६९॥

३५. पश्चिमाधामिनी यामात्प्रसादमिव चेतना ॥ रघु० १७। १॥

३६. अपुनात् सवितेवोभौ मार्गावुत्तरदक्षिणौ ॥ रघु० १७।२॥

३७. वयोरुपविभूतीनामेकैकं मदकारणम् ॥ रघु० १७। ४३॥

३८. कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।

अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः ॥ रघु० १७। ४७॥

३९. न हि सिंहो गजस्कन्दी भयाद् गिरि गुहाशयः ॥ रघु० १७। ५२॥

४०. वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः ॥ रघु० १७। ३४॥

४१. समीरणसहायोऽपि नाम्भः प्रार्थी दावानलः ॥ रघु) १७। ५६॥

४२. अम्बुगर्भो हि जीमूतश्चातकैरभिनन्द्यते ॥ रघु० १७। ५६॥

४३. प्रवृद्धौ हीयते चन्द्रः समुद्रोऽपि तथाविधः ।

स तु तत्समवृद्धिश्च न चाभूत्ताविव क्षयी ॥ रघु० १७। ७१॥

४४. सकृड्विविग्नानपि हि प्रयुक्तं माधुर्यमीष्टे हरिणान् ग्रहीतुम् ॥ रघु० १८। १३॥

४५. सुखोपरोधि वृत्तं हि राज्ञामुपरुद्धवृत्तम् ॥ रघु० १८। १८॥

४६. स्वादुभिस्तु विषयैर्हृतस्ततो दुः खमिन्द्रियगणो निवार्यते । रघु० १९।४९॥

४७. एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥ कुमार० १। ३॥

४८. अनन्तपुष्पस्य मधोर्हि चूतेद्विरेफमाला सविशेषसङ्ग ॥ कुमार० १४। २७॥

४९. संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ॥ कुमार० १। २८॥

५०. ऋते कृशानोर्न हि मन्त्रपूतमर्हन्ति तेजांस्यपराणि हव्यम् ॥ कुमार० १।९ ॥

५१. वीर्यवन्त्यौषधानीव विकारे सान्निपातिके ॥ कुमार० २। ४८॥

५२. विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥ कुमार० २। ५५॥

५३. मनसा कार्यसंसिद्धौ त्वराद्विगुणरंहसा ॥ कुमार० २। ६३॥

५४. अप्यप्रसिद्धं यशसे हि पुंसामनन्यसाधारणमेव कर्म ॥ कुमार० ३।९॥

५५. समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य ॥ कुमार० ३। २१॥

५६. प्रायेणा सामग्य्रविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः ॥ कुमार० ३। २८॥

५७. स्वजनस्य हि दुः खमग्रतो विवृतद्वारमिवोपजायते ॥ कुमार० ४। २६॥

५८. दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ॥ कुमार० ४। २८॥

५९. शशिना सह याति कौमुदी सह मेघेन तडित्प्रलीयते ।

प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि ॥ कुमार० ४। ३३॥

६०. रविपीतजला तपात्यये पुनरोधेन हि युज्यते नदी ॥ कुमार० ४।४४॥

६१. प्रियेषु सौभाग्यफला हि चारुता ॥ कुमार० ५। १॥

६२. अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः ॥ कुमार० ५।२॥

६३. पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ॥ कुमार ५। ४॥

६४. न षटपदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते ॥ कुमार० ५।९॥

६५. शरीरमाद्यं खलु धर्मसाधनम् ॥ कुमार० ५।३३॥

६६. पापवृत्तये न रुपम् ॥ कुमार० ५।३६॥

६७. कः करं प्रसारयेत् पन्नगरत्नसूचये ॥ कुमार० ५।४३॥

६८. वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते ॥ कुमार० ५।४४॥

६९. न रत्नमन्विष्यति मृग्यते हि तत् ॥ कुमार० ५।४५॥

७०. मनोरथानामगतिर्न विद्यते ॥ कुमार० ५।६४॥

७१. अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्क्रिया ॥ कुमार० ५। ७३॥

७२. न कामवृत्तिर्वचनीयमीक्षते ॥ कुमार० ५।८२॥

७३. मार्गाचलव्यतिकराकुलितेव सिन्धुः शाइलाधिराजतनया न ययौ न तस्थौ ॥ कुमार० ५। ८५॥

७४. क्लेशः फलेन हि पुनर्नवतां विधत्ते ॥ कुमार० ५। ८६॥

७५. प्रायेणैवंविधे कार्ये पुरन्ध्रीणां प्रगल्भता ॥ कुमार० ६। ३२॥

७६. नूनमात्मसदृशी प्रकल्पिता वेधसा हि गुणदोषयोर्गतिः ॥ कुमार० ८।६६॥

७७. स्तोत्रं कस्य न तुष्टये ॥ कुमार० १०। ९॥

७८. कार्येष्ववश्यकार्येषु सिद्धये क्षिप्रकारिता ॥ कुमार० १०। २५॥

७९. विपदा परिभूताः किं व्यवस्यन्ति विलम्बितुम् ॥ कुमार० १०।३५॥

८०. रत्नाकरे युज्यते एव रत्नम् ॥ कुमार० ११।११॥

८१. पुत्रोत्सवे माद्य्ति का न हर्षात् ॥ कुमार० ११। १७॥

८२. कस्य मनो न हि क्षुभ्यति धाम धाम्नि ॥ कुमार० १२।२२॥

८३. चिरार्जितं पुण्यमिवापचारात् ॥ कुमार० १२।३८॥

८४. दावानलप्लोषविपत्तिमन्यो महाम्बुदात् किं हरते वनानाम् ॥ कुमार० १२।४१॥

८५. भवन्ति वाचोऽवसरे प्रयुक्ता ध्रुवं फलाविष्टमहोदयाय ॥ कुमार० १२।४३॥

८६. ध्रुवमभिमते पूर्णे को वा मुदा न हि माद्यति ॥ कुमार० १२।६०॥

८७. महतां वृथा भवेदसदाग्रहान्धस्य हितोपदेशनम् ॥ कुमार० १५। २६॥

८८. कुतस्त्वया तस्य समं विरोधिता ॥ कुमार० १५।३४॥

८९. आहवस्तस्य सह त्वया कुतः ॥ कुमार० १२।३५॥

९०. युयुत्सुभिः किं समरे विलम्ब्यते ॥ कुमार० १५ ।४७॥

९१. नास्त्यगतिर्मनोरथानाम् ॥ विक्रम० २।११-१२॥

९२. अनुत्सेकः खलु विक्रमालङ्कारः ॥ विक्रम० १।१७-१८॥

९३. ननु प्रथमं मेघराजिर्दृश्यते पश्चाद्विद्युल्लता ॥ विक्रम० २।१४-१५॥

९४. तप्तेन तत्पमयसा घटनाय योग्यम् ॥ विक्रम० २। १५॥

९५. लोत्रेण गृहीतस्य कुम्भीरकस्यास्ति वा प्रतिवचनम् ॥ विक्रम० २।१९-२०॥

९६. आश्वासितः पिशाओऽपि भोजनेन ॥ विक्रम० १२।१९-२० ॥

९७. भवितव्यानुविधायिनी इन्द्रियाणि ॥ विक्रम० २। मिश्र विषकम्भक॥

९८. स्त्रीषु कष्टोऽधिकारः ॥ विक्रम० ३।१॥

९९. ९९ यदेवोपनतं दुःखात् सुखं तद्रसवत्तरम् ।

निर्वाणाय तरुच्छाया तप्तस्य हि विशेषतः ॥ विक्रम० ३। २१॥

१००. सर्वथा नास्ति विधेरलङ्घनीयं नाम ॥ विक्रम० ४।२-३॥

१०१. परावृत्तभागधेयानां दुःखं दुःखानुबन्धि ॥ विक्रम० ४।९-१०॥

१०२. राजा कालस्य कारणम् ॥ विक्रम० ४।११-१२॥

१०३. महदपि परदुःखं शीतलं सम्यगाहुः ॥ विक्रम० ४। २७॥

१०४. विभावितैकदेशेन देयं यदभियुज्यते ॥ विक्रम० ४।३४॥

१०५. अनिर्वेदप्राप्याणि श्रेयांसि ॥ विक्रम ४। ५५ -५६॥

१०६. उपपद्यते परिभवास्पदं दशाविपर्ययः ॥ विक्रम० ४।६०-६१॥

१०७. न खलु वयसा जात्यैवायं स्वकार्यसहो भरः ॥ विक्रम० ५।१८॥

१०८. पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम् ।

सन्तः परीक्ष्यान्यतरद् भजन्ते मूढः परप्रत्ययनेयबुद्धिः ॥ मालविका० १।२॥

१०९. आकृतिविशेषेष्वादरः पदं करोति ॥ मालविका० १।३-४॥

११०. नाट्यं भिन्नरुचेत्जनस्य बहुधाप्येकं समाराधकम् ॥ मालविका० १।४॥

१११. पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः ।

जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य ॥ मालविका० १।६॥

११२. हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकाऽपि वा ॥ रघु० १। १०॥

११३. अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरुढमूलत्वात् ।

नवसंरोपणशिथिलस्तरुरिव सुकरः समुद्धर्तुम् ॥ मालविका० १।८॥

११४. प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः ॥ रघु० १।३॥

११५. प्रतिकारविधानमायुषः सति शेषे हि कल्पते ॥ रघु० ८।४०॥

११६. कठिनः खलु स्त्रियः ॥ कुमार० ४।५॥

११७. रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ पूर्वमेघ २१॥

११८. के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ पूर्वमेघ ५८॥

११९. सूर्योपाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ उत्तरमेघ २० ॥

१२०. प्रायः सर्वो भवति करुणा वृत्तिरार्द्रन्तरात्मा ॥ उत्तरमेघ ३४॥

१२१. पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥ उत्तरमेघ ४३॥

१२२. कस्यात्यन्तं सुखमुपनतं दुः खमेकान्ततो वा ।

नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ उत्तरमेघ ४३॥

१२३. बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ शाकुन्तल १।२॥

१२४. आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि ॥ शाकुन्तल १।११॥

१२५. विनीतवेषेण प्रवेष्टव्यानि आश्रमतपोवनानि ॥ शाकुन्तल १५-१६॥

१२६. भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ शाकुन्तल १। १६॥

१२७. सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तः करणाप्रवृत्तयः ॥ शाकुन्तल १। २१॥

१२८. राजरक्षितव्यानि तपोवनानि नाम ॥ शाकुन्तल २२-२३॥

१२९. सर्वं खलु कान्तमात्मानं पश्यति ॥ शाकुन्तल २।७-८॥

१३०. विकारं खलु परमार्थतोऽज्ञात्वाऽनारम्भः प्रतीकारस्य ॥ शाकुन्तल ३। ७-८॥

१३१. स्निग्धजनसंविभक्तं हि दुःखं सह्यवेदनं भवति ॥ शा० ३।८-९॥

१३२. सागरमुज्झित्वा कुत्र वा महानद्यवतरति ॥ शा० ३। १० -११॥

१३३. श्रिया दुरापः कथमीप्सितो भवेत् ॥ शाकुन्तल ३।१२॥

१३४. विवक्षितं हि अनुक्तमनुतापं जनयति ॥ शाकुन्तल ३। १६-१७॥

१३५. अहो विघ्नवत्यः प्रार्थितार्थसिद्धयः ॥ शाकुन्तल ३।२२।-२३॥

१३६. क इदानीं शरीरनिर्वापयित्रीं शारदीं ज्योत्स्नां पतान्तेन वारयति ? शा० ३। १२-१३॥

१३७. को नामोष्णोदकेन नवमालिकां सिञ्चति ? शाकुन्तल ३ । विष्कम्भक ॥

१३८. प्रकृतिदुरवापा हि विषयाः ॥ शाकुन्तल ३। ४०॥

१३९. तेजोद्वयस्य युगपदव्यसनोदयाभ्यां लोको नियम्यत इवात्मदशान्तरेषु ॥ शा० ४।२॥

१४०. इष्टप्रवासजनितान्यबलाजनस्य दुःखानि नूनमतिमात्रसुदुः सहानि ॥ शा० ४।३॥

१४१. अत्यारुढिर्भवति महतामप्यपभ्रंशनिष्ठा ॥ शाकुन्तल ॥४।५

१४२. सुशिष्यपरिदत्ता विद्येवाशोचनीया संवृत्ता ॥ शाकुन्तल ४।३-४॥

१४३. अओदकान्तं स्निग्धो जनोऽनुगन्तव्यः ॥ शाकुन्तल ४।१५-१६॥

१४४. गुर्वपि विरहदुः खमाशाबन्धः साहयति ॥ शाकुन्तल ४।१६॥

१४५. स्नेहः पापशङ्की ॥ शाकुन्तल ४। १९-२०॥

१४६. कुतो विश्रामो लोकपालानाम् ॥ शाकुन्तल ४।१९-२०॥

१४७. नातिश्रमापनयनाय यथा श्रमाय राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥ शा० ५।५॥

१४८. भावस्थिराणि जननान्तरसौहृदानि ॥ शाकुन्तल ५।९॥

१४९. अनिर्वर्णनीयं परकलत्रम् ॥ शाकुन्तल ५।१३-१४॥

१५०. तमस्तपति घर्मांशौ कथमाविर्भविष्यति ॥ शाकुन्तल ५।१४॥

१५१. स्वाधीनकुशलाः सिद्धिमन्तः ॥ शाकुन्तल ५।१४-१५॥

१५२. मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु ॥ शाकुन्तल ५।१८॥

१५३. सर्वः सगन्धेषु विश्वसिति ॥ शाकुन्तल ५।२१-२२॥

१५४. स्त्रीणामशिक्षितपटुत्वममानुषीषु

सन्दृश्यते किमुत याः प्रतिबोधवत्यः ।
प्रागन्तरिक्षगमनात् स्वमपत्यजात् –
मन्यैर्द्विजैः परभृताः खलु पोषयन्ति ॥ शा० ५।२२॥

१५५. उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी ॥ शाकुन्तल ५। २६॥

१५६. वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ॥ शाकुन्तल ५।२८॥

१५७. अवसरोपसर्पणीया राजानः ॥ शाकुन्तल ६। प्रवेशकः ॥

१५८. उच्छेत्तुं प्रभवति यन्न सप्तसप्तिस्तन्नैशं तिमिरमपाकरोति चन्द्रः ॥

१५९. ज्वलितचलितेन्धनोऽग्निर्विप्रकृत?ः पन्नगः फणां कुरुते ।

प्रायः स्वं महिमानं क्षोभात् प्रतिपद्यते हि जनः ॥ शा० ६।३१॥

१६०. कल्पिष्यमाणा महते फलाय वसुन्धरा काल इवोप्तबीजा ॥ शा० ६। २४॥

१६१. हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥ शाकुन्तल ६।२८॥

१६२. उत्सर्पिणी खलु महतां प्रार्थना ॥ शाकुन्तल ७।१२-१३॥

१६३. पूर्वावधीरितं श्रेयो दुःखं हि परिवर्धते ॥ शाकुन्तल ७। १३॥

१६४. किमीश्वराणां परोक्षम् ॥ शाकुन्तल ७। २५-२६॥

१६५. प्रबलतमसामेवम्प्रायाः शुभेषु हि प्रवृत्तयः ।

स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया ॥ शा० ७। २४॥

१६६. छाया न मूर्च्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा ॥ शा० ७। ३२॥

१६७. सरस्वती श्रुतिर्महती महीयताम् ॥ शाकुन्तल ७। ३५॥

प्रकीर्णाः

सम्पाद्यताम्

१. ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः ,

पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् ।
दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा,
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥ शाकुन्तल १।७॥

२. मुक्तेषु रश्मिषु निरायतपूर्वकाया,

निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः ।
आत्मोद्धतैरपि रजोभिरलङ्घनीया,
धावन्त्यमी मृगजवाक्षमयेव रथ्याः ॥ शाकुन्तल १।८॥

३. यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलताम् ,

यदर्धे विच्छिन्नं भवति कृतसन्धानमिव तत् ।
प्रकृत्या यद्वक्रं तदपि समरेखं नयनयो-
र्न मे दूरे किञ्चित्क्षणमपि न पार्श्वे रथजवात् ॥ शाकुन्तल १।९॥

४. शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी,

पर्णस्वन्तरलीनतां विजहति स्कन्धोदयात्पादपाः ।
सन्तानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः,
केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते ॥ शाकुन्तल ७।८॥

५. उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक् तदनन्तरं पयः ।

निमित्तनैमित्तिकयोरयं क्रमस्तव प्रसादस्य पुरस्तु सम्पदः ॥ शा० ७।३० ॥