मौक्तिकानि (अन्ये स्वराः)

इन्द्रियनिग्रहः सम्पाद्यताम्

शंजम्मध णिअपोटं णिच्चं जगरोध झाणपदहेण
विरामा इन्दिअचोला हलन्ति चिलशंचिदं घम्मम् ॥२५॥
(संयच्छत निजोदरं नित्यं जागृत ध्यानपटहेने
विषमा इन्द्रियचौरा हरन्ति चिरसञ्चितं धर्मम् ॥) मृच्छकटिकम् ८.१

उत्तमः सम्पाद्यताम्

उत्तम: क्लेशविक्षोभं क्षमः सोढुं न हीतरः मणिरेव महाशाणघर्षणं न तु मृत्कणः ॥२६॥ सुभषितरत्नभाण्डागारम् ४६.५५ </poem>

उद्यमः सम्पाद्यताम्

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः
नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ २७ ॥ पञ्चतन्त्रम् २.१३८

उद्योगिनः सम्पाद्यताम्

उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी -
दैवेन देयमिति कापुरुषा वदन्ति
दैवं निहत्य दुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ २८ ॥ पञ्चतन्त्रम् १.३९२

उदारचरितः सम्पाद्यताम्

अयं निजः परो वेति गणना लघुचेतसाम्
उदारचरितानां तु वसुधैवकुटुम्बकम् ॥ २९ ॥ पंचतन्त्रम् ५.३८

उपकारः सम्पाद्यताम्

प्राप्य चलानधिकारान् शत्रुषु मित्रेषु बन्धुवर्गेषु
नापकृतं नोपकृतं न सत्कृतं किं कृतं तेन ॥ ३०॥ सुभषितरत्नभाण्डागारम् १७०.७४०