रामायणसूक्तयः (उत्साहः)

१. अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् । (सुन्दरकाण्डः १२/१०)

२. अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ।

करोति सफलं जन्तोः कर्म यच्च करोति सः ॥ (सुन्दरकाण्डः १२/११)

३. उत्साहवन्तो हि नरा न लोके,

सीदन्ति कर्मस्वतिदुष्करेषु । (अरण्यकाण्डः ६३/१९)