ग्रामे नगरे समस्तराष्ट्रे...

ग्रामे नगरे समस्तराष्ट्रे...


ग्रामे नगरे समस्तराष्ट्रे
रचयेम संस्कृतभवनम्
इष्टिकां विना मृत्तिकां विना
केवलसम्भाषणविधया
संस्कृतसम्भाषणकलया ॥

शिशुबालानां स्मितमृदुवचने
युवयुवतीनां मञ्जुभाषणे
वृद्धगुरूणां वत्सलहृदये
रचयेम संस्कृतभवनम् ॥

अरुणोदयत: सुप्रभातम्
शुभरात्रिं निशि संवदेम
दिवानिशं संस्कृतवचनेन
रचयेम संस्कृतभवनम् ॥

सोदर-सोदरी-भाव-बन्धुरं
मातृप्रेमतो बहुजनरुचिरं
वचनललितं श्रवणमधुरं
रचयेम संस्कृतभवनम् ॥

मूलशिला सम्भाषणमस्य
हिन्दुजनैक्यं शिखरमुन्नतम्
सोपानं श्रवणादिविधानम्
रचयेम संस्कृतभवनम् ॥


- गु. गणपय्यहोळ्ळः