घट्टकुटीप्रभातन्यायः

घट्टकुटी इति सीमारक्षकाणां स्थानम् । तत् स्थानं परिहर्तुं कश्चन वाहनचालकः आरात्रि अपरमार्गेण गन्तुं प्रयत्नं कृतवान् । प्रभातकाले यदा सः दृष्टवान् तदा तस्य यानं घट्टकुटीस्थले एव प्राप्तमासीत् । महता प्रयत्नेनापि तस्य साफल्यं न भवति । प्रत्युत यस्य सङ्कटस्य परिहाराय सः प्रयत्नः कृतः

तदेव सङ्कटम् पुनश्च संप्राप्तमिति अनेन न्यायेन बोध्यते । सर्वदर्शनसंग्रहस्य पाणिनीयदर्शने अस्य उल्लेखः कृतः (पृष्ठे ३०२)

ननु स्फोटव्यञ्जकतापक्षोऽपि प्रागुक्तविकल्प प्रसरेण

घट्टकुटीप्रभातायितमिति चेत् तदेतद् मनोराज्यविजृम्भणम् ॥

"https://sa.wikiquote.org/w/index.php?title=घट्टकुटीप्रभातन्यायः&oldid=9672" इत्यस्माद् प्रतिप्राप्तम्