अग्निना दग्धे शरीरावयवे जलम् अन्यं किमपि द्रवपदार्थ वा स्थापयामः तर्हि तत्र स्फोटाः भवन्ति । परन्तु घृतं स्थापितं चेत् तस्य अवयवस्य ज्वलनं नश्यति व्रणस्य उपशमनं च भवति । एवं बहुशः प्रतिकूलरुपेण भासमानः पदार्थः अनुकूलोऽपि भवति चेत् अस्य न्यायस्य प्रयोगो भवति ।

"https://sa.wikiquote.org/w/index.php?title=घृतदग्धन्यायः&oldid=9668" इत्यस्माद् प्रतिप्राप्तम्